________________ नित्य नियम पूजा [7. HIDASTI श्री पंचामृताभिषेक पाठ श्री पंचनमस्कार मंत्र णमो अरिहंताणं, णमो सिद्धाणं, गमो आइरियागं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं / मंगलाष्टकं श्रीमन्नम्रसुरासुरेंद्रमुकुटप्रद्योतरत्नप्रभा / भास्वत्पादनखेदवः प्रवचनांभोधीदवः स्थायिनः / / ये सर्वे जिनसिद्धसूर्यनुगतास्ते पाठकाः साधवः / स्तुत्या योगिजनैश्च पंचगुरवः कुर्वन्तु मे (ते) मंगलम् // 1 // सम्यग्दर्शनबोधवृत्तममलं रत्नत्रयं पावनं / मुक्तिश्रीनगराधिनाथजिनपत्युक्तोपवर्गप्रदः / धर्मः सूक्ति सुधा च चैत्यमखिलं चैत्यालयं श्यालयं / प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु मे (ते) मंगलम् // 2 // नामेयादि जिनाधिपास्त्रिभुवनख्याताश्चतुर्विशतिः / श्रीमंतो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश // ये विष्णु प्रतिविष्ण लांगलधराः सप्तोचरा विंशतिस्त्रैकाल्ये प्रथितात्रिषष्टिपुरुषाः कुर्वन्तु मे (त) मंगलम् // 3 //