________________ चतुर्थः परिच्छेदः विरोधाच्च नित्यज्ञानादिमत्त्वमतिदेशशब्दार्थः / न चानुभवविरोधः / आवृतत्वादिति चेत न, अविद्यां विना प्रकाशावरणानुपपत्तेः / जीवातिरिक्तज्ञाने प्रमाषाभावात् / जीवधर्मज्ञानस्यानित्यत्वानुभवेन बाधितत्वाच्च / अतत्त्वमसि इप्त पदच्छेदनिरासः यत्तु सत्यात्मा अतत्त्वमसीति पदछेदः भिन्नशकुनिदृष्टान्तबलात् / शब्दो नित्य इत्यत्र घटदृष्टान्तेनानित्य इति छेद इवेति। तत् अतिफल्गु। ईश्वर भेदस्य प्रत्यक्षसिद्धत्वेनाजिज्ञासितस्य चाप्रतिपाद्यत्वात / एकविज्ञानाधीनसर्वविज्ञान-अद्वितीयत्व प्रतिज्ञा तदुपपादनाद्यनेकोपक्रमविरोधाच्च दृष्टान्तमात्रवलात भेदोपदेशे तद्वदेव जीवस्य शकुनित्वं ब्रह्मणोऽचेतनत्वं च विवक्षितं स्यात् अन्यथा दृष्टान्तवैषम्यात् अहं ब्रह्मास्मि, तत् त्वमेव त्वमेव, तत्वमात्मा ब्रह्मैव ब्रह्मास्मैव न विचिकित्स्यं इत्यादिमहावाक्येषु त्वदुक्तकल्पनायोगाच्च / तस्मादाचीनमतमर्वांचीनमेव / चिरन्तनदासमतनिराकरणम् यत्तु चिरन्तनदासमतं, तत्तुच्छम् मनुष्यादिशब्दानामात्मनीव त्वंशब्दस्यान्तर्यामिणि लक्षणा किंवा मुख्यार्थत्वमेव / नाद्यः, अन्तर्यामिलक्षणां विनाऽनुपपत्त्यभावात् / न च ब्राह्मणादिशब्दानामपि न लक्षणेति वाच्यम् / ब्राह्मणत्वस्य तद्विशिष्टस्य वा तदर्थत्वात् शरीरातिरिक्तात्मनश्च तदुभयातिरिक्तत्वात् / / न द्वितीया, त्वंशब्दस्य संबोध्यमात्रवाचकत्वात् अन्तर्यामिणश्च संबोध्या - सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं इत्युपक्रम्य ऐतदात्म्यमिदं सर्वं तत्सत्यं स “आत्मा इत्येतेन ब्रह्मणैव सृष्ट्यादिकथनपुरस्सरं आरम्भणाधिकरणन्यायेन तस्याद्वितीयत्वं प्रतिपादितमनालोचयता नवीनेन अतिदौर्भाग्यात् तत्त्वमस्यादिवाक्योत्थमित्यादिस्मृत्या अयमात्मा ब्रह्मेति श्रुत्या च विरुद्धः पदविभागः कृतः। स चातितुच्छोऽपि दुर्जनरमणीयत्वान्निराकार्यः इति तमनूद्य निराकरोति-यत्वित्यादिना / शकुनिसूत्रदृष्टान्तेति / यथाहि शव निः सूत्रेण प्रतिबद्ध इत्युक्तशकुनिसूत्रदृष्टान्तगतभेदवलादित्यर्थः / अतत्त्वम- सीति कल्पनामात्रान्न तवेष्टसिद्धिः / एतादृशकल्पनागन्धरहितानामभेदबोधकमहा. वाक्यानां शतशः श्रवणादित्याह--अहं ब्रह्मारमीत्यादिना। अर्वाचीनमेवेति / निकृष्ट हेयमेवेति यावत् / शृङ्गिमतं प्रमाणयुक्तिहीनत्वादुपेक्ष्यमित्याह-यत्त्वित्यादिना / . मनुष्यब्राह्मणादिपदानां आत्मनि शक्तत्वात् तेषामात्मनीव च किं त्वंपदस्यान्तर्या.. मिणि लक्षणेत्युक्तमयुक्तमित्याशङ्क्याह-न च ब्राह्मणादीति / त्वंपदस्यान्तर्यामी