________________ चतुर्थः परिच्छेदः तयोपस्थितत्वात् / एकत्वरूपाभेदस्प वाक्यावन्येनानुपस्थितेः / वाक्यादेव तसिद्धी वाक्यमखण्डार्थनिष्ठमेव। न च तत्तदन्ते देवदत्तवृत्ती इति प्रतिपादयतीति वाक्यम् / नाक्याद्भेदभ्रमानिवृत्तिप्रसङ्गात् / वृत्तिपदाभावाच्च / द्वितीये यदि तात्पर्यकल्पनं लाघवेन विशेषणीभूताभेव एव तबस्तु / तस्याभेदपरता अपि च समानाधिकरणवाक्यतयाऽभेद एव तात्पर्यम् / तत्र च विशिष्टा. भेदे विशेषणयोरप्यन्वयो वाच्यः। पदार्थंकदेशेऽन्वयाव्युत्पत्तेः विशेषणयोश्चाभेदाभावे तदवछेदकतया नीलगुणोत्पलयोरिव वाच्यः अवच्छेदकत्वं च अवच्छेद्यान्यूनकालोनत्वमेव / नतु यद्वत्तया ज्ञात एव यदन्वयधीस्तत्वं; उपलक्षणस्याप्यवच्छेदकत्वे : विशेषणत्वप्रसङ्गात् / न हि काकवत्ताज्ञानं विना काकवदेवदत्तगृहमितिधीर्भवति। न वा तत्संशयादिनिवृत्तिःतच्चावच्छेदकत्वं न तत्तेदन्तयोरस्ति तयोरभेदात पूर्व म्येनो पस्थित्यसंभवेन तद्विशेष्यान्वयबोधायोगात् / अतः तत्तेदन्तयोः प्राधाग्येनोपस्थित्यर्थं त्वयापिपदद्वयसक्षणा वाच्यति भावः / अस्तु पदद्वयलक्षणा तथापि तत्तादेरेकवृत्तित्वबोधनान्नाखण्डार्थतेत्याशङ्कयाह---एकत्वरूपेति / तत्तेदन्ताद्याश्रयभेदबोधाभावात् तत्तदन्ते एकाश्रिते इतिधोनं स्यादित्यर्थः। वाक्यमेव तदाश्रायाभेदं प्रतिपाद्यतयोसन्निष्ठतामपि बोधयतीत्याशङ्कयाह-वाक्यादेवेति / शब्दस्य विरम्य व्यापारायागात् तत्तेदन्ताश्रयत्वस्याभिन्नयोरेव सिद्धत्वाच्च तदैक्य एव वाक्यपर्यवसानं न विशिष्टपरतेव्यर्थः। अभेदवाचकपदाभावेपि देवदत्तपदश्रवणात् तद्वृत्तित्वं तत्तादेर्बोध्यत इत्याशङ्क्याह-न च तत्तेति / भेदभ्रमानिवृत्तिप्रसंगादिति / देवदत्तद्वयाश्रितत्वेऽपि तदुपपत्तेरित्यर्थः। द्वितीये तात्पर्यमेकवृत्तित्व इत्यत्र एकपदेन भिन्नाभिन्नविशिष्टाकारो विवक्षितः उत अभिन्नविशेष्यमात्र, आये स्वविशिष्टे स्नवृत्तेर्बाधितत्वेन तत्र तात्पर्यायोगादित्यभिप्रेत्य द्वितीये पदद्वयलक्षणां विना विशेष्यमात्राभेदप्रतीत्ययोगात् सा आवश्यिकी ततश्च लाघवादायातोविशेष्याभेद एव तात्पर्य प्रत्याय्यम् / न तु तत्तादेः तदवृत्तित्वेऽपि गौरवात् तस्यार्थिकत्वाच्चेत्याह-द्विती। इति / विशेषणीभूतेति / एकवृत्तित्व इत्यत्र एकपदोपात्तविशेषणीभूताभेद इत्यर्थः। परोक्तविशिष्टाभेदमपि दूर्वायतुमाह--अपि चेत्यादिना / अवच्छेद्यान्यूनकालीनत्वमिति / शौक्लयस्यापि यावद्रव्यभावित्वेन गोपिण्डावच्छेदकत्वात् न तत्राव्याप्तिरिति भावः / उपलक्षणेऽपि परोक्तविशेषणलक्षणानुगतिं दर्शयति-न हीति / विशिष्टान्वयासंभवफलमाह-अत इति / विशेष्याभेदमावस्याऽन्यतोऽवगमात् तत्र वाक्यं व्यर्थमित्याशङ्क्य भेदोपाधिपरामर्शपूर्वकं पूर्वमभेदेनानधिगतेः ततस्संशयाद्यनिवृत्तः तन्निवर्तनसमर्थं ज्ञानं वाक्यकसाध्य