________________ चतुर्थः परिच्छेदः प्रमापक्षकानुमाने प्रथमं सिद्धसाधनम्; ज्ञाने विषयस्यैव प्रकारत्वात् / पारिभाषिकप्रकारत्वस्य निरस्तत्वात।अप्रयोजकत्वं च सर्वेषां हेतूनाम् / नापि तन्मात्रप्रश्नोत्तरत्वादिति हेतोः सत्यादिवाक्येष्वसिद्धिः प्रश्नोपलम्भाभावेऽपि अन्यत्रेव प्रकृतेऽपि तस्य कल्प्यत्वात् / उत्तरं चानन्तवस्तुपरमिति प्रश्नोऽपि तथैव कल्पयितुमुचितः। त्वंपदार्थविषयवाक्यपक्षकं चेदमनुमानम / तत्र कतम इति श्रतिः न जात्यभिप्राया तस्यास्तस्मिन्नेकस्मिन् न्यायोपबृंहितश्रुत्यैव निरस्तत्वात् / किन्तु देहाविभ्यो निर्धारकस्वरूपपरा। न च सर्वस्याप्युत्तरस्य प्रश्नमिनिष्ठनिर्धारितकप्रकारकत्वात् विरुद्धो हेतुः। उत्तरं प्रश्नतात्पर्यविषयविषयकमिति हि नियमः। अन्यथा ततोभिन्न विषयत्वेन संशयानपायात् / प्रश्नविषयो धर्मी चेत स एवोत्तरप्रकारः। धर्मश्रेत् स एवेति न सर्वत्रापि धर्म एव प्रकार इति नियमः / मिमात्रप्रश्ने धर्मवैशिष्ट्यतात्पर्यान्तरस्य वैययंप्रसंगाच्च / तेन बिनापि संशयादिनिवृत्तिसंभवा. दित्युक्तम्। ___ यत्तत्तरस्य प्रश्नादधिकविषयत्वाभावे उत्तरमेव न स्यादिति तदप्यनेन निरस्तम् / ब्रह्मस्वरूपं किमिति जिज्ञासायां सत्यादिवाक्येन सत्यत्वादिसाधारण एव व्यभिचार इति द्रष्टव्यम् / वेदान्तजन्यप्रमा सप्रकारेत्यत्र दोषान्तरमाह-प्रमेति / एवं लक्षणवाक्यत्वहेतौ परोक्तदोषानिरस्यान्यत्रापि तानिराकरोति-नापीति / अन्यत्रेवेति / भृगुवल्ल्यां अधीहि भगवो ब्रह्मेति प्रश्नदर्शनात् ब्रह्मवल्ल्यामपि तस्य' गुणोपसंहारन्यायेनान्वयादित्यर्थः / यदुक्तं कल्प्यस्य उत्तरानुसारेण धर्मविषयत्वमिति तत्राह-उत्तरं चेति / त्वंपदार्थे कतम आत्मेति प्रश्नदर्शनात् योऽयं विज्ञानमय इत्यादितदुत्तरवाक्ये खण्डार्थत्वं साध्यते तत्र नासिद्धिशङ्कापीत्याह-स्वपदार्थेति / तहि वा बहूनामिति सूत्रात् जातिविषयत्वं प्रश्नस्येत्याशङ्क्याह-तत्रेति। अतोऽन्यदातम्, स एष नेतिनेत्यात्मा, असंगो ह्ययं पुरुषः, मायया ह्यन्यदिव, न ह्यस्ति द्वैतसिद्धिः, एकमेवाद्वितीयं, इत्यादिश्रुतिशतैः दृश्यत्वादिन्यायोपेतैः आत्मनि वास्तवजात्यादिसंबन्धनिषेधात् न पराभिमतजातिसंबन्धपरेयं श्रुतिः। किन्तु अहमिति व्यवहारविषयतया सजातीयेभ्यो देहादिभ्यो विविच्या त्वंपदार्थस्यासाधारणरूपेण निर्धारणपरेत्यर्थः / ___अत्र परोक्तमपि विरोधं निरस्यति न च सर्वस्येत्यादिना / धर्मिमात्रप्रश्नोत्तरस्य धर्मवैशिष्ट्यपरत्वकल्पने प्रयोजनाभावात् गौरवं चेत्याह-धर्गिमात्रेति / विशिष्टज्ञानं विना संशयनिवृत्त्ययोगात् न वैयर्थ्यमित्यत आह -तेने ते / आप्तोपदेशजन्यर्मिस्वरूपसत्तावधाराणादेव संशयादेनिवृत्तिसंभवादित्यर्थः--अनेन निरस्तमिति / प्रश्नविषयनिर्धारकमेवोतरमिति निरूपणेनेत्यर्थः / किञ्च सत्यादिवाक्यस्य धर्मपरत्वे कोविदारोत्तरवत् उत्तराभासत्वं स्यादित्याह-ब्रह्मस्वरूपमिति / ब्रह्मस्वरूपं न जिज्ञास्यं तस्यानुमानादि