________________ 36 सटीकाद्वैतदीपिकायाम् अखण्डाथै अनुमानस्यादुष्टत्वनिरूपणम् एवमनुमानमयदुष्टम् / तत्र न प्रथमे साध्याप्रसिद्धिः, लौकिकलक्षगवाक्यमात्रे साध्यस्य सत्वात् / प्राशस्त्यप्रतिपादक 'वायुर्वेक्षपिष्ठे' त्यादिवाक्येषु तत्प्रसिद्धश्च / न.प्यप्रसिद्धिः सत्यज्ञानानन्दाभेदस्याब्रह्मण्यभावेन ब्रह्मणस्तदास्मत्वेन चाव्याप्त्याद्यभावेन तस्य लक्षणत्वात् / ब्रह्मणो लक्षणान्तराभावाच्च / जगत्कारणत्वादेः कल्पितस्य वास्तवस्वरूपत्वानुपपत्तः। न च सत्यादीनां धर्मत्वाभावे लक्षणत्वानुपपत्तिः असाधारणधर्मस्य॑व लक्षणत्वादिति वाच्यम् / एवं परिभाषायां प्रमाणाभावात् / यद्विषयत्वेन ज्ञानस्य व्यावर्तकता तल्लक्षणम् / तद्विषयश्च स्वरूपमपीत्युक्तमिति स्वरूपमपि लक्षणम् / अन्यथा प्रमेयत्वादेः केवलान्वयिनो लक्षणाभावप्रसङ्गात / तत्र प्रमेयत्वतारूपधर्मान्तरस्य प्रमेयेतरावृत्तिस्वरूपस्यासंभवात् / न च प्रमेयत्वमेव स्वधर्मतया स्वस्य लक्षणं स्ववृत्तित्वस्य संबन्धाभावेन निरस्तत्वात् साधारणत्वाच्च / एवं घटत्वादेरपि न धर्मो लक्षणम् तद्वत्त्यसाधारणधर्मस्यासंभवात् / किञ्च सर्वत्र धर्मस्यैव लक्षणत्वे तत्तद्धर्ममालाप्रसङ्गः। तस्मात लक्षणे दोषनिरासमुपसंहरन् प्रमाणदोषनिरासं प्रतिजानीते-श्लोकेनतस्मादि।त / परोक्तपक्षे दापं तावन्निरस्यति--तत्रोत / किञ्च विधेयेनान्वयप्रतीतेः पर्वं प्राशरत्यमात्रस्यार्थवादपदः प्रतीतेः तत्र साध्यं सुप्रसिद्धमित्याह-प्राशस्त्येति / न च प्रारास्त्येऽपि लक्ष्यतावच्छेदकवैशिष्ट्य प्रतीयत इति वाच्यम् / तथापि तस्य वाय्वादिपदार्थनिरूपितसंसर्गत्वाभावादिति भावः। सत्यत्वादेर्जातित्वे उपाधित्वे वा ब्रह्मलक्षणत्वाभावादसिद्धमित्युक्तं निरस्थति-सत्यज्ञानानन्दाभेदस्येति / सत्यादिवाक्यस्य स्वरूपलक्षणपरत्वात् न त्वदुक्तचोद्यावकाश इत्यर्थः / वस्तुनः स्वरूपलक्षणस्यावश्यकत्वात् अन्यस्य च तस्याभावात् सत्याद्यात्मस्वरूपमेव तल्लक्षणमित्यभिप्रेत्याह-ब्रह्मण इति / असाधारणधर्म एव लक्षणं न मिस्वरूपमिति पराभिमानं निरस्यति न च सत्यादीनामिति / असाधारणधर्मातिरेकेण लक्षणपदार्थो दुर्वच इत्याशक्याह--यद्विषत्यवेनेति / स्वरूपमपि लक्षप्पमिति / तथा च स्वरूपपरवाक्ये लक्षणवाक्यत्वं नासिमिति भावः / असाधारणधर्म एव लक्षणमिति नियमे बाधकमाह-अन्यथेति। असंभव.दिति। प्रमेयेतरस्याप्रसिद्धेरिति भावः / प्रमेयत्वे स्वातिरिक्तलक्षणाभावेऽपि स्वयमेव स्ववृत्तितया स्वलक्षणमित्याशक्यासंभवातिव्याप्तिभ्यां दूषयति-न च प्रमेयामिति / किञ्च तव जातिमात्रे लक्षणासिद्धिरित्याह-एनमिति / कि घटत्वे घटत्वतवासाधारणधर्म: उत घरवृत्तित्वे सति पृथिवीत्वसाक्षाद्व्याप्यजातित्वादि / सर्वथापि घटद्यनेकपदार्थ घटिततया तस्य घटत्वाश्रितत्वासभवादित्यर्थः / किञ्च धर्मस्यैव लक्षणत्वे स किमवगतमात्रेण धर्मिणं व्यावर्तयति