________________ सटीकाद्वैतदीपिकायाम् प्रतियोग्युपस्थापकत्वात् / अन्यथा तत्र विभक्त्यर्थान्वयानुपपत्तेः। विभक्तेः प्रकृ. त्यान्वितस्वार्थबोधकत्वात् / शीतोष्णस्पर्शवन्तौ पयः पावको इत्येतदपि पयः पावकयोः पृथक् लक्षणद्वयपरमिति तदपि लक्ष्यमिति नातिव्याप्तिः / नाप्य संभवः / लौकिकवाक्येऽखण्डार्थसाधनम् तथाहि-अस्ति हि चन्द्रं न जानामोत्यज्ञानानुभवात्तस्मिन्नज्ञानम्, अस्ति च कश्चन्द्र इति तत्स्वरूपमात्रनिष्ठः प्रश्नः अत उत्तरमपि तत्समानार्थमिति अखण्डार्थम् / चन्द्रस्य ज्ञातत्वान्न तद्गोचरौ ताविति चेत् तहि व्यावर्तकस्यापि तस्मिन्निश्चितत्वात् तयोनिविषयतापत्तिः। चन्द्रनिष्ठत्वाज्ञानं च तस्य चन्द्रपदार्थाज्ञानं विना न संभवति / अत एवाचन्द्रव्यावृत्तिविषयौ ताविति प्रत्युक्तम् / चन्द्रोऽचन्द्राद्वयावृत्त इति सामान्येन तस्या अपि ज्ञातत्वात् / प्रकृष्ट प्रकाशोऽचन्द्रोद्वधावत्त इति धीर्नास्तीति चेन्न, तस्यापि प्रकृष्टप्रकाशे चन्द्रत्वाज्ञानप्रयुक्तत्वात् / प्रकृष्टप्रकाशश्चन्द्रइनि ज्ञाने हि सति प्रकृष्ठप्रकाशो अप्रकृष्टप्रकाशो न भवतीति धीरिव अचन्द्रो न भवतीति धीरपि भवत्येव / __अस्तु तहि वाच्यत्यविषयौ ताविति चेत् न, तयोरपि प्रकृष्टप्रकाशे चन्द्रत्वाज्ञानं विनाऽनुपपत्तेः / तत्र तन्निश्चये हि यथा शुक्ले घटगुणे अयं शुक्ल क्ष्वेति पदयोरित्यर्थः। वाक्यगम्यान्वयप्रतियोगिनोः पदाभ्यामनुपस्थिती बाधकमाहअन्यथेति / विषवाक्येपि सुप्तिविभक्त्योः लक्षणाभावात् तयोश्च प्रकृत्युपस्थापितार्थान्वितस्वार्थबोधकतानियमात् तदर्थं संसर्गिणः तत्प्रकृत्युपस्थापितत्वमास्थयमित्यर्थः / शीतोष्णस्पर्शवन्तावित्यत्रापि लक्षणव्यपरतया वाक्यभेदाम्नातिष्याप्तिरित्याहशीतेति। यदुक्तं प्रकृष्टादिवाक्यस्यापि संसृष्टार्थत्वादसंभव इति तत्राह-नापीति / चन्द्रस्य प्रत्यक्षेणावगमात् तत्राज्ञानप्रश्नयोरयोग इति अङ्कत–चन्द्रस्येति / तर्हि किं तयोः प्रकृष्टप्रकाशकत्ववैशिय्टचं विषयः उताचन्द्रव्यावृत्तिवैशिष्टमं, चन्द्रपदवाच्यत्ववैशिष्टयं वा ? नाद्यः प्रकृष्टप्रकाशत्ववैशिष्टयस्य व्यक्तिविशेषे प्रत्यक्षेणेवावगमात् ततश्चन्द्रत्वविषयत्वमेव तयोरित्याह-तीति। द्वितीयं निरस्यति-अत एवेति / किञ्च चन्द्रोऽचन्द्रा यावृत्त इत्याकारणाज्ञातत्वं, किं वा प्रकृष्टप्रकाशोऽचन्द्रापावृत्त इत्याकारेप!, बाधा चन्द्रपदार्थाज्ञानाभावे तदयोगादित्यभिप्रेत्याह-चन्द्रोऽचन्द्रादिति / द्वितीयमुत्थाप्य निरस्यति-प्रकृष्टप्रकाश इत्यादिवा / तस्य चन्द्रवाशाबप्रयुक्तत्वं व्यतिरेकमुखेनोपपादयति-प्रकृष्टप्रकाशश्चन्द्र' इति / प्रकृष्टप्रकाशे चन्द्रत्वाचानाभावे प्रकृष्टप्रकाशश्चन्द्र इति ज्ञानं परेणाभ्युपेयमेव / तथा च तस्याचन्द्राद्वयावृत्ति. रप्यनुभूयेतेत्यर्थः। तहि तृतीयकल्पोऽस्त्विति शङ्कते-अस्त्विति / चन्द्रपदवाच्यत्व-विषययोरप्यज्ञानप्रश्नयोः चन्द्रप्रकाशे चन्द्रत्वाज्ञानं विनाऽयोगात् तदेव प्रश्नविषय इत्याह-न तयोरपीति / अन्यथोपपत्ति निरस्यति-तत्र तन्निश्चये हीत्यादिना / घटगत