________________ 24 सटीकाद्वैतदीपिकायाम् नहि पृथिवीत्वं पृथिवीप्रातिपदिकार्थः। सहप्रयोगस्तु पृथिवीशब्दस्य तच्छब्देन व्यवहर्तव्यत्वपरत्वात् / प्रश्नोत्तरे विशिष्ट विषये तस्मात मिणश्चन्द्रस्य सामान्यती नक्षत्रादिव्यावर्तकस्य स्वव्यावृत्ति रूपधर्मस्य च घटादौ प्रागेव ज्ञातत्वात् विशिष्ट विषये एव प्रश्नोत्तरे। व्यावृत्तिवैशिष्ट्ये साक्षादबुभुत्सितेपि विविच्य इदमस्माद्वयावतमिति जन्मशतेनापि दुर्वचस्वात्। धूमे कथितेऽग्निमिव व्यावर्त के उक्त व्यावृत्ति ज्ञास्यतीति भावेन व्यावर्तकवैशिष्ट्यमेव तात्पर्यतः प्रतिपादयति / नहि अग्निबोधार्थस्य धमोऽस्तीति वाक्यस्य न धूमे तात्पर्यम् / न वा यागाक्षेपकस्याग्नेयादिवाक्यस्य न द्रव्यदेवतासंबन्धे। __ यदि तु पृष्टंव व्यावृत्तिः प्रतियोगिनामानन्त्यात साक्षात् प्रष्टुं वक्तुं वाऽशक्येति ज्ञात्वा कश्चन्द्र इत्यनया वचोभङ्ग्या कैविशेषणविशिष्ः इति पृष्टं तदा सुतरां प्रश्नोत्तरे ब्यावर्तकवैशिष्ट्यपरे इति न क्वाप्यखण्डार्थत्वम् / एतेन प्रश्ने धर्मवाचिपदं नेति प्रत्युक्तम् / तथापि चन्द्रधर्मस्यैव लक्षणीयत्वाच्च / प्राति. पदिकार्थस्य ज्ञातत्वेन तत्र बुभुत्साऽयोगात् / यद्वा लक्षणवाक्यमनुमानत्वेन आप्तवाक्यत्वेन वा चन्द्रव्यवहारकर्तव्यतावैशिष्ट्यारमस्तु चन्द्रस्वरूपस्य प्रत्यक्षेण ल्मकता विवेयता स्यात् तस्यातदर्थत्वादित्यत आह-नहीति / तहि पृथिवीत्वपदेनैव तस्योपात्तत्वात् पृथिवीपदप्रयोगोऽनर्थक इत्याशङ्क्याह-सहेति / ननु व्यावर्तकधर्मादिज्ञानं चेत् तत्प्रश्नायोगः अज्ञातत्वे मिज्ञानाभावात् तबु मुत्सापूर्वकप्रश्नासंभव इत्याशङ्का निराकुर्वन्तुपसंहरति-तस्मादिति / चन्द्रादावितरव्यावृत्तिवैशिष्ट्यस्यैव बुभुत्सितत्वात् तदेव प्रतिपाद्यं न व्यावर्तकवैशिष्ट्य अत आह-व्यावृत्तिवैशिष्टय इति / ब्यावृत्तिप्रतियोगिनामनन्तत्वात् विशष्य तन्मात्रं दुर्वचमित्यर्थः। तहि अजिज्ञासितविषयत्व नुत्तरस्येत्याशङ्क्याहधूम इति / व्यावृत्तिरभिप्रता चेत् कथं व्यावर्तकतात्पर्यमित्याशक्याह-नह्यग्निबोधेति / प्रश्नस्य व्यावृत्तिविषयत्वमङ्गीकृत्याप्युत्तरस्य व्यावर्तकधर्मविषयत्वमुक्तम् विचार्यमाणे प्रश्नोऽपि व्यावर्तकविषय' इत्युत्तरमपि तद्विषयमित्याह-यदि विति। कश्चन्द्र इति प्रश्नवाक्ये व्यावर्तकधर्मामिधायिपदाभावान्न तद्विषयता तस्येत्याशक्याहएतेनेति / चन्द्रस्वरूपस्य पूर्वमेव ज्ञातत्वे तत्र प्रकृष्टप्रकाशादिवैशिष्ट्यस्य च प्रत्यक्षेणैव ज्ञातत्वात् प्रश्नोत्तरयोः तद्विषयत्वायोगमाशङ्यार्थान्तरमाह-यद्वेति / यथाश्रुति चन्द्रस्वरूपपरत्वे को दोष इति विवक्षायामाह-चन्द्रस्वरूपस्येति / ननु चन्द्रविशिष्टव्यवहारं यदि प्रागेव जानाति तदा लक्षणवाक्यरूपानुमानादि निरर्थकं, न जानाति चेत् लक्षणवाक्यादपि तस्य विषयविशेषे कर्तव्यतां कथमधिगच्छेत् इति तत्राहचन्द्र व्यवहारेति /