________________ 18 सटोकाद्वतदीपिकायाम् लक्षगायामपि श्रुतितुल्यता। अवाच्यमित्यादित्वदुदाहृतश्रुतौ साक्षाद्वाच्यत्व निषेधाच्च यत्तु अदभुतत्वमनया प्रतिपाद्यत इति / तन्न / तस्य पदार्थवाक्यार्थयोरन्यतरत्वाभावात् लक्षणानुपपत्तेश्च / वाक्यशेषपर्यालोचनया तस्याप्यपुरुषार्थत्वेन श्रुत्याऽप्रतिपाद्यत्वात् / “अथ कस्मादुच्यते ब्रह्मेत्यादि तु ब्रह्मणः शब्दतात्पर्यविषयत्वाभिप्रायम् / गङ्गापदेन तीरमुच्यते इति लक्ष्येपि ‘उच्यत' इति प्रयोग दर्शनात् / तस्मादखण्डवाक्यार्थे सत्यज्ञानसुखात्मनि / न कस्यापि पदस्यास्ति शक्तिरित्यात्मविस्थितिः॥ आनन्दवृद्धिमपविद्धतदन्ययोगां त्वामामनन्ति मुनयो गुरवोऽपि वेदाः / . तदुक्त वरदराजेन-एतस्येतिपदं प्रकृतवाचि सत् अग्निष्टुदुपकारकं लक्षणयोपस्थापयति / तथा च नातीवैतच्छब्दस्य प्रकृतपरत्वत्यागः। न वा अव्यक्तत्वेन सौमिकविध्यत्त एव; चोदनालिङ्गतो वचनभेदस्यतच्छब्दस्यैव बलवत्त्वादिति / न वाच्यं न च दृश्यत इति त्वदुदाहृतश्रुतिविरुद्धं च त्वदनुमानमित्याह-वाच्यमिति / यतो वाच इत्यादेः परोक्तमर्थमनूद्य दूषयति-यति त्यादिन / लक्षणापत्तेश्चेति। कि मुख्यार्थान्वयानुपपत्तिः अद्भुतत्वलक्षणाबीज कुत तार्यानुपपत्तिः? नाद्यः तल्लक्षणायामपि वाच इत्यस्यान्वयाभावात् / न च यत अद्भुताद्वाच इत्यन्वय इति वाच्यम् / साकाङ्क्षत्वेनानययात् / न चोत्पद्यन्त इति क्रियापदमध्याहर्तव्यमिति वाच्यम् / अध्याहारस्यैवदोषत्वात् / प्रपञ्चोलत्तेः प्रागेवाभिहितत्वाच्च / नापि द्वितीयः उक्तदोषात् / न चाद्भुतत्वं सर्वपदलक्ष्यमिति वाच्यम्। तस्योपक्रमादावनवगतस्य तात्पर्यगोचरत्वायोगात् / तस्य वाच्चसम्बन्धित्वेनाप्रतीतश्चेति भावः। आनन्दज्ञानादेव भयनिवृत्तिश्रवणादपि नाद्भुतत्वं श्रुतिप्रमेयमित्याह-वाशेपेति / ब्रह्मणो वाच्यत्वे परोदाहृतश्रुतेर्गतिमाह-अथ कस्मादि त / वादार्थमुपसंहरति श्लोकेन / तस्मादिति / सत्यादिवाक्यार्थस्य लक्ष्यत्वमभिधाय' तस्येतरवाक्यार्थीद्वलक्षण्यं दर्शयन् बतिष्यमाणवादार्थं संग्रहेणाह-अनदवृद्धिमिति / आनन्दप्रचुरं परमानन्दभिति यावत् / तद्रूपत्वं मतान्तरेऽपि तुल्यमित्याशङ क्याह-अविद्धति / अपविद्धो निरस्तः तदन्यस्य आनन्दादन्यस्य योगः संसर्गो यस्यां सा तथोक्तामित्यर्थः। अखण्डानन्दरसमेव तत्त्वं 'यो वै भूमा तत्सुखं' 'अथैष एव परम आनन्दः' 'तदेतदद्वयं स्वप्रकाशं महानन्दः' 'एवधैवानुद्रष्टव्यं' 'नात्र काचन भिदास्ति' इत्यादि