________________ चतुर्थः परिच्छेदः ननु ब्रह्मणो लक्ष्यादिपदवाच्यताऽभावे कथं ब्रह्म सर्वपदलक्ष्यं वाच्यान्यदिति वा प्रतिपादनीयमिति चेत् / का तहि प्रतिपादनेऽनुपपत्तिः। न तावत् तेन विना. योग्यताद्यभावः, प्रत्युत तस्मिन् सत्येव न योग्यता। नापि लक्ष्यादिपदवाच्या. प्रसिद्धया तल्लक्षणानुपपत्तिः / तत्तत्पदलक्ष्यतीरादेः लक्ष्यपदार्थत्वात् / ननु लक्ष्यपदेनापि तस्य लक्ष्यत्वे कथं वाक्यार्थप्रतीतिः। ततल्लक्ष्यज्ञानं विना तदयोगादिति चेत् तहि स एव दोषः। नापि द्वितीयः तत्तद्धर्मविशिष्टस्य ब्रह्मणो वाच्यस्वेऽपि तत्तदधिष्ठानस्य विशेष्यस्य तदभावात् / विशेष्यस्य सर्वस्मादपि विशिष्टादन्यत्वात तल्लक्ष्यते। अवाच्यपदस्यापि वाच्यान्यत्वविशिष्टे ब्रह्मणि शक्तिरविरुद्धा / लक्षणयाच ततः स्वरूपप्रतिपत्तिः / अन्यथा योग्यताविरहात् / ब्रह्मणो लक्ष्यादिपदाबाच्यत्वे तदनुवादेन लक्ष्यत्वादिविधानानुपः रिति शङ्कतेनन्विति / लक्ष्यादिपदावाच्यस्य तद्योग्यताभावात् तदनुपपत्तिः उत लक्ष्यादिपदवाच्याप्रसिद्धया तस्य लक्षणयाऽपि तद्वोधकत्वायोगात् / किञ्च अलक्ष्यपदेनापि लक्ष्यत्वे ब्रह्मणः तद्वाच्यसंबन्धितया शब्दान्तरेण प्रागनवगमादनुपपत्तिरित्यभिप्रेत्याह-का तीति / आद्यं निरस्यति-न तावदिति / ब्रह्मणो लक्ष्यादिपदावाच्यत्वेऽपि तस्य सर्वपदलक्ष्यत्वादेरविरोधाल्लक्षणया तद्वोधसंभवादित्यर्थः / लक्ष्यादिपदवाच्यत्व एव तद्वाक्यमयोग्यताग्रस्तमित्याह-प्रत्युतेति / द्वितीयं निरस्यति-नापीति / नचैवमपि सर्वपदलक्ष्यावाच्यमित्यादिपदवाच्यमप्रसिद्धमिति वाच्यम्। तस्य शक्तानेकपदसमभिव्याहाररूपवाक्यत्वेनापदत्वादिति / तृतीयमुद्भाव्य परिहरति-नन्वित्यादिना / स एवेति / तत्रोक्तानवस्थैव दोषः न त्वन्यः स चानन्तरमेव निरसिष्यत इति भावः। ब्रह्मणि प्रवृत्तिनिमित्तसत्त्वेनेति कल्पं दूषयति-नापीति / ब्रह्मणि किं वास्तव प्रवृत्तिनिमित्तमस्तीत्युच्यते उतारोपितं ? नाद्यः, तस्यानन्तरमेव निरसिष्यमाणत्वात् इत्यभिप्रेत्य द्वितीये तद्विशिष्टस्य वाच्यत्वेऽपि तस्यापरमार्थत्वान्न परमार्थब्रह्मणो वाच्यतेत्याह-तत्तदिति / तत्तद्विशिष्टस्याब्रह्मत्वे किं पुन ब्रह्म यस्य लक्ष्यतेति वीक्षायामाह-विशेष्यस्येति / चैतन्यमेव कल्पिततत्तद्धर्मविशिष्टताकारेण तत्तत्पदवाच्यमपि सकलविशिष्टान्यत् निविशेषणविशेष्यरूपं सकलपदलक्ष्यम् / तथा च यद्यद्ब्रह्मत्वेनोपेतं तत्तदब्रह्मेति परोक्तं निरस्तम्। विशेष्यस्य निर्धर्मकस्यैव ब्रह्मत्वादिति भावः। अवाच्यादिशब्दानां पदत्वमङ्गीकृत्याह-अवाच्येति / वाच्यान्यस्वरूप एवाच्यत्व नाम धर्मो व्यवहाराय कल्पितः / तद्वशिष्टरूपं अवाच्यपदवाच्यम् ततश्चैतदपि वाक्यार्थं ब्रह्म लक्षणयैव बोधयति यावद्वाच्यान्यस्वरूपं शक्त्या बोधयतः स्वव्याघातात् / एवं चावाच्यपदलक्ष्यस्य तद्वाच्यसंबन्धमात्र सिध्येत् न त्ववाच्यत्वमिति निरस्तम्। अवाच्यत्वधर्माश्रयमात्रस्य तेन लक्ष्यमाणत्वादिति भावः / अङ्गीकारं परित्यजति-वस्तुत इति /