________________ सटोकावतदीपिकायाम् लक्ष्यमेव वक्तव्यम् / अन्यथा तत्प्रतिपत्त्यनुपपत्तेः / न च पदशक्त्यैव पदार्थज्ञानद्वारा वाक्यार्थप्रमा, अपर्यवसानालभ्यस्य शक्तिजन्यज्ञानविषयस्य शक्यत्वनियमेन वाक्यार्थऽपि शक्यत्व प्रसंगात्। नहि जातिपदार्थवादिनां व्यक्तिरिव पदार्थसंसर्गोऽपर्यवसानलभ्यः येन शक्तिजन्यज्ञानविषयत्वेऽपि वाच्यत्वं न स्यात् / तथात्वे वा ब्यक्ति रिवैकपदादपि संसर्गविशेषो भायात् / आकाङ्क्षाद्यपेक्षाऽभावप्रसंगाच्च / विनिगमकाभावेन पर्यायतापत्तेश्च / न च विनापि वत्या पदानामाकाक्षादिमहिम्नव संसर्गबोधकत्वमस्त्विति वाच्यम् / प्रतिपादनसमर्थस्य हि आकाङक्षादिसहकार्यपेक्षणम् सामर्थ्य च शब्दस्यार्थे वृत्तिरेव / तथा च वाक्यार्थज्ञानं लक्षणाजन्यं शक्त्यजन्यत्वे सति शब्दजन्यत्वात् सम्मतवत् / अन्यथा वाक्यार्थज्ञाने शाब्दत्वं न स्यात् / न च लाक्षणिकत्वे पदानां संसर्गाननुभावकत्वं, संसर्गस्यैव सर्वपदैलक्ष्यत्वात् / तस्य च पूर्वमननुभूत्वात् / लाक्षणिकगापदस्यापि अन्वयप्रतियोग्युपस्थापकतया पदान्तरवदनुभवजन विशेषणवैयर्थ्यात् / उक्तविधया गङ्गादिपदस्यापि तीरबोधकत्वसंभवात् तत्रापि लक्षणाभावप्रसङ्गाच्चेति भावः / वाक्यार्थस्यापर्यवसानलब्धत्वात् न शक्यतेत्याशङ्क्याहनहीति / जातेनियमेन व्यक्तिपारतन्त्र्योपलम्भात् तया विना जातेः अपर्यवसानम् / पदार्थस्य त्वपूर्व वाक्यार्थपारतन्त्र्यानुपलभ्यात् न तेन विना तदपर्यवसानमित्यर्थः / / वाक्यार्थस्यापर्यवसानलभ्यत्वे दोषान्तरमाह-तथात्व इति / वाक्यार्थे वृत्ति विनाऽपि पदानां सहकार्यनुरोधेन तद्बोधकत्वसंभवात् न लक्षणयापि कृत्यमित्याशइक्याह - न च विनापीति / वृत्तिरेवेति / तथा चमुख्यवृत्यसंभवे शक्यसंबन्धिनि बोधजननसामर्थ्यरूपलक्षणावृत्तिरभ्युपेयेति भावः। तकितेऽर्थे प्रयुङ्क्ते-तत्राचति / मुख्यार्थज्ञाने व्यभिचारवारणाय-शक्त्यजन्यत्व इति / तस्य शक्तिजन्यत्वात् / तावत्युक्ते शब्दशक्त्यजन्ये चाक्षुषज्ञाने व्यभिचारः तन्निवारणाय-शब्दजन्यत्वादिति / तत्र शब्दत्वेन शब्दजन्यत्व विवक्षितम् ततो न शब्दगोचरप्रत्यक्षवृत्तौ व्यभिचारः। नापि घटव्यक्तिजन्ये ज्ञाने व्यभिचारः तस्यापि लक्षणाविशेषत्वादिति भावः। वाक्यार्थज्ञानस्य शब्दवृत्त्यजन्यत्वे बाधकमाह-अन्यथेति / लाक्षणिकपदं स्माररकमेव नानुभावकं ततश्रा वाक्यस्य संसर्गलक्षकत्वे तदनुभावकत्व न स्यादिति वदन्तं तार्किकं प्रत्याह-न च लाक्षणिकत्व इति / अधिगतार्थत्वं हि स्मारकत्वे तन्त्रम् / संसर्गविशेषस्य चापूर्वत्वात् लक्षकपदानामपि तदनुभावकत्वं युक्तमित्यर्थः / अन्यत्रापि लक्षकपदस्य अननुभावकत्वमसिद्धमित्याह लाक्षणि कति / शक्तस्यैवानुभावकत्वसंभवे न लाक्षणिकस्यापि तत्कल्प्यमित्याशक्ययामाह-पदस्येति / शक्तत्वं हि पदार्थोपस्थितिप्रयोजकवृत्तिविशेषवत्त्वं तच्च पदार्थोपस्थापकत्वापेक्षया गुरुशरीरमित्यर्थः / किञ्च शक्तिभ्रमे सति अशक्तत्वं प्रयोजकमित्याह-अशक्तादपीति / अन्वयप्रतियोगी तच्छब्दार्थः