________________ अद्वैतदीपिकायां चतुर्थः परिच्छेदः यस्मिन्नस्तसमस्तमोहमहिमस्वानन्दमन्दीकृतब्रह्मानन्दमहार्णवे महति न प्राचीनवाचामपि / शक्तिस्सत्यचिदात्मके नरहरी मोहामरारेररौ तन्मे तापनिवृत्तये श्रुतिगतं भूयादखण्डं महः // जगन्नाथाश्रमगुरोः कृपाराकासुधाकरः / स्पष्टीकरोतु मेऽस्पष्टं मार्ग ब्रह्मसुखावहम् // तत्त्वमस्यादिवाक्यार्थनिरूपणम् अथ वाक्यार्थो ब्रह्मनिरूप्यते / तत्र वादिनां विप्रतिपत्तेः / तदर्थं च वाक्यार्थ ब्रह्मणि पदानां शक्तिरस्ति न वेति चिन्त्यते। टीका श्रीगुरुभ्यो नमः / स्रष्टश्रीशमहेशतज्जपवनेन्द्विन्द्रवन्ह्यादिभिः सृष्टयादावनिशं कृतैः स्वविहितैः उद्विग्नचित्तैभृशम् / सत्यज्ञानसुखामृताभयवपुः तत्त्वं परं प्रार्थितं नूनं नो गुरुरूपमेत्य जगतां मुक्त्यै परं चेष्टते। परिच्छेदान्तरमारभमाणः परदेवताप्रार्थनव्याजेन वक्ष्यमाणार्थ संक्षिप्य दर्शयति-यस्मिन्निति / अस्तो निरस्तः समस्तो मोहमहिमा मायाविलासात्मकोऽनर्थः यस्मिन् तेन स्वात्मानन्देन मन्दीकृतः हेयत्वं गमितः ब्रह्मणो हिरण्यगर्भस्य आनन्दमहा