________________ सटीकाद्वैतदीपिकायाम् अखण्डार्थवादः तत्त्वमसि अहं ब्रह्मास्मि इत्यादिमहावाक्यात् निष्प्रकारकं अखण्डब्रह्मविषयक ज्ञानमुत्पद्यते। तथाहि लोके घटमानयेत्यादिवाक्यात् आदौ घटीयं कर्मत्वं आनयनानुकूला कृतिःइष्टसाधनं इति खण्डवाक्यार्थद्वयं बुद्धयते / ततः घटकर्मकानयनानुकूलकृतिमांश्चैत्रः इति महावाक्यार्थज्ञानं जन्यते / इयं रीतिः तत्त्वमसीतिवाक्यार्थज्ञाने न योजयितुं शक्यते / तथाहि-तत्पदस्य जगत्कर्तृत्वादिविशिष्टे ब्रह्मणि शक्तिः त्वंपदस्य किञ्चिज्ज्ञत्वादिविशिष्टे जीवचैतन्ये शक्तिः उपनिषद्भयः अवगम्यते। समानाधिकरणपदयेन तु अभेदो बोधनीयः यथा 'सोऽयं देवदत्तं इत्यत्र / स चाभेदःबाधितः। यद्यपि ब्रह्मव शरीरं सृष्ट्वा शरीरे प्रविष्टं सत् जीव इत्यभिलप्यते / "तत्सृष्ट्वा तदेवानुप्राविशत् "अनेन जीवेना. मनाऽनुप्रविश्य" सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाऽभिवदन् यदास्ते' इत्यत्र इतरश्रुत्यनुरोधात् 'तत्रानुप्रविश्येति अध्याहृर्तव्यम् / ततश्च जीवेशयोरभेदात् तत्त्वमसीत्यस्य तेन त्वमसि तस्मात्त्वमसीत्याद्यर्थकत्वं वा त्वच्छरीरकं तदस्तीत्यर्थे व्याख्यानं न हृदयंगमम् / अभेदश्रुतिबाधात् "अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। तं स्वाच्छरीरात्प्रवृहेत् मुजादिवेषीकां धैर्येण / तं विद्याच्छुक्रममृतं" इति अंगुष्ठमात्रः ईशानः इत्यादी जीवस्य शोधनपूर्वकं ब्रह्माभेदेन ज्ञानस्योक्तत्वात् / तथा च प्रथमतः जीवो ब्रह्माभिन्नः इति ज्ञानं जायते / ततः अभेदानुपपत्तिप्रतिसन्धानं ततः विशिष्टवाचकतदादिपदस्य विशेष्यमात्रे जहदजहल्लक्षणा ततः शुद्धस्योपस्थितिः पदद्वयेनापि / शुद्धयोश्च नाभेदः संसर्गः संसर्गमात्रस्य' भेदनिष्ठत्वात् / अतः महावाक्यार्थः अखण्डं ब्रह्मैव / तज्ज्ञानं च संसर्गागोचरं निष्प्रकारकं इत्यभिलप्यते। वाच्ययोरभेदज्ञानात् लक्षणाज्ञानद्वारा जन्यात् संसर्गाविषयकज्ञानात् अभेदविषयकाज्ञानस्य नाश इति स्थितिः। तत्र संक्षेपशारीरकाचार्याः - लक्षणायां सिद्धत्वमात्र प्रयोजन प्रमाणाधिगतत्वं इक्षक्षीरादिरसविशेषप्रतिपत्तये माधुर्यविशेषः इति प्रयुज्यमानपदस्य स्वानुभवसिद्धरसविशेषेलक्षणात् / तस्य च स्वसाक्षिवेद्यस्य प्रत्यक्षादिप्रमाणावेद्यत्वात् / तत्र सत्यत्वं मिथ्यात्वविरोधिस्वरूपं एवं ज्ञानत्वानन्दत्वे जड़त्वदुःखस्वरूपत्वविरोधिस्वरूपमेव / इदं च तत्पदार्थनिर्णये। त्वपदार्थश्च किञ्चिज्ज्ञत्वदुःखादिविरोधिस्वरूपमेव लक्षणया बोध्यते उभयत्र जहदजहल्लक्षणा आश्रमीया, अन्तःकरणप्रतिविबा जीवः मायाप्रतिबिंबो वा इति पक्षयोः बिबप्रतिबिंबयोः अभेदात् जहदजहल्लक्षणा / प्रतिबिंबः आभास एव न परमार्थ इति पक्षे जोवस्वरूपे त्वंपदस्य जहल्लशणैव, इत्थं वाक्यादखण्डानुभवं वर्णयति संक्षेपशारीरकं सामानाधिकरण्यमत्र भचति प्राथम्यभागन्वयः, पश्चादेव विशेषणेतरतया पश्चाद्विरोधोद्भवः / उत्पन्ने च विरोध एकरसके वस्तुन्यखण्डात्मके वृत्तिलक्षणया भवत्ययमिज्ञेयः क्रमः सूरिभिः // इति /