________________ सटीकाद्वैतदीपिकायाम् वास्तवभेदं च निराकरोतीति सिद्धः स्वत आत्माभेद इति / मायासंभृतमानसेषु बहुधा योबिम्बितो भासते। ब्रह्मब्राह्मणदेवदैत्यपशुभिर्भास्वानिवाप्सु प्रभुः // यः स्वाभापहृताखिलाशुभवपुर्यो भौतिकज्योतिषां ज्योतिः श्रीपतये मृगेन्द्रवपुषे तस्मै परस्मै नमः॥" जीव-य तात्विकांशत्वमतं तन्निरासश्च केचित्त जीवाः परमात्मनः पारमार्थिकांशाः। "ममैवांशो जीवलोके" इति स्मृतेः / न च निरवयवस्यांशवत्त्वं विरुद्धम् / औपाधिकस्य तस्याविरोधात् / अत भावं प्राप्तो बहुधा भासते / बहुधा भानमेव दर्शयति-ब्रह्मेति / चतुर्मुखाद्युच्चावचरूपेणेत्यर्थः / तृतीया चेत्थंम्भावे / बिम्बस्यैव प्रतिबिम्बभावेन नानोपाधिषु बहुधाभाने दृष्टान्तमाह-भास्वानिति // नन्वेवं बहुधा भानस्य सुखप्रतिबिम्बवच्चित्प्रतिबिम्बेऽसंभवाबिम्बभूतेश्वरस्यैव भेदभ्रमो वक्तव्यः। तथा च तत्प्रयुक्तसंसारारोपोऽपि तस्यैव स्यादित्यत आह-- यः स्वाभेति / स्वस्य या आभा--अनावृतस्वरूपप्रकाशः तया अपहृतम् -अप्राप्तम् अखिलाशुभवपुः--भ्रान्त्यादिसकलदोषस्वरूपं यस्मिन् स तथोक्तः / बिम्बरूपस्यापीश्वरस्य स्वतस्तत्त्वज्ञत्वान्न तत्र भ्रान्त्यादिप्रसक्तिः मुखप्रतिबिम्बस्य जडत्वादेव न भ्रान्तिः, न तु प्रतिबिम्बत्वात् / बिम्बस्यापि स्तम्भकुम्भादेर्जडस्य भ्रान्त्यभावात् / चित्प्रतिबिम्बस्य तु जीवस्य चेतनत्वादज्ञत्वाच्च तस्यैव भ्रान्त्यादिरित्यर्थः / नन्वीश्वरस्य बिम्बरूपत्वे मुखादिबिम्बवत्तत्त्वज्ञतैव न स्यादित्याशक्य मुखादेर्जडत्वादेव न तत्त्वज्ञता, ईश्वरस्य तु चिद्रूपत्वादज्ञत्वाभावाच्च तत्त्वज्ञतेत्यभिप्रेत्य तस्य सर्वसाक्षिचिद्रूपत्वमाह-यो भौतिकेति / आदित्यादिज्योतिषामपि ज्योतिः सत्तानिश्चयरूपप्रकाशः, अन्येषां किमु वक्तव्यमिति भावः / तथा च श्रतिः--"तमेव भान्तमनुभाति सर्व, तस्य भासा सर्वमिदं विभाति" इति / मृगेन्द्रवपुषे-नरसिंहात्मकविग्रहोपलक्षिताय सर्वावयवापेक्षया शिरसः प्रधानत्वात्तस्य सिंहाकारत्वात्, इतरावयवेषु नराकारस्यापि वपुषो मृगेन्द्राकारत्वव्यपदेश इति द्रष्टव्यम्। जीवेश्वरयोरंशांशिभावेन भेदस्तात्त्विको न तु बिम्बप्रतिविम्बभावेन कल्पित इति तान्त्रिकमतमनुवदति दूषयितुं-केचित्त्विति / ननु "ततस्तु तं पश्यते निष्कलं ध्यायमानः" "निष्कलं निष्क्रियं शान्तम्" इत्यादिनिरंशत्वप्रतिपादकश्रुतिविरोधात् स्मृतिरन्यपरतया नेयेत्याशक्य निरंशस्याप्याकाशस्येवोपाधिकांशसंभवाद्विरोध एव नेत्याह