________________ तृतीयः परिच्छेदः 455 गुणप्रयुक्ता सर्वज्ञता किन्तु अनावृतस्वरूपमायावित्वप्रयुक्ता। तदुभयं च तमोगुणकस्यापि। नहि कम्बलं दुकलं वा परिदधानस्य देवदत्तस्य स्वस्मिन् अन्यत्र वा ज्ञाने विशेषोऽस्ति। जीवानां तु उपाधिपरतन्त्राणां सत्त्वात सञ्जायते ज्ञानं इति गुणविशेषाद्विशेषः। श्रुतिरपि ब्रह्मविष्णुशिवरूपिणीति त्वदभिमतमायिकब्रह्मतुल्यमेव शैवाभिमतं ब्रह्म दर्शयति। तस्मात् ब्रह्मकत्वमिच्छद्भिः नारायणोऽशरीरः शिवविष्ण्वादिभेदरहितः इत्यभ्युपेयः। ब्रह्मादिगुणानां मिथ्यात्वम् किञ्चते गुणाः शरीरं च किं दृश्यमुतादृश्यम् ? तत्राद्ये मिथ्यात्वापातः। द्वितीये तदसिद्धिः प्रमाणाभावात् / न च ब्रह्मवत् गुणा अपि स्वप्रकाशाः / तथापि पुरुषान्तरीयज्ञानाविषयत्वेऽस्माकं तद्वयवहारानुपपत्तेः / तवमते व्यवहारविषयस्य प्रकाशविषयत्वनियमाच्च। ज्ञानातिरिक्तकामादिगुणानां स्वप्रकाशत्वानुपपत्तेश्च। प्रकाशल्यैव ज्ञानत्वात् / तेषां च ज्ञानात्मकत्वे ज्ञानेच्छादिपदानां पर्यायता ब्रह्मगुणानामानन्त्य च न स्यात / ज्ञानेच्छादीनां कार्यकारणभावाभावप्रसंगश्च। एवं तेषामनानन्दत्वे हेयत्वापत्तिः / ब्रह्मण आनन्दरूपत्वनिर्णयः आनन्दत्वं च सर्वविषयज्ञानकर्तृत्वादेर्नास्त्येव / न च तेषामप्यानन्दइत्याह--श्रतिरपीति / परमते ब्रह्मकत्वासिद्धेः स्वाभिमतमेव ब्रह्माभ्युपेयमित्याहतस्मादिति / युक्तितोऽपि साकारत्वं निराकरोति-क्रिञ्चेति / प्रमाणाभावेऽपि स्वत एव तद्गुणसिद्धिरित्याशङ्क्याह-न चे त / प्रमाणं विना तेषामस्फुरणादिति शेषः / स्वप्रकाशत्वमङ्गीकृत्याह तथापीति / ब्रह्मगुणाः किं जीवप्रकाश विषयाः उत न? नान्त्यः जीवानां तद्विषयप्रकाशजन्यत्वनियमादित्यर्थः / नाद्यः प्रकाशविषयत्वे दृश्यत्वेन अस्वप्रकाशत्वमिथ्यात्वयोः आपातात् तव मते जीवे जन्यज्ञानस्यैव स्वप्रकाशत्वादिति चार्थः / अङ्गीकारं त्यजति-ज्ञानातिरिक्तेति / प्रकाश स्येति / व्यवहारानुकूलप्रकाशस्य ज्ञानस्वरूपत्वात् इच्छादीनामपि तथात्वे ज्ञानाद्वैजात्यं न स्यादित्यर्थः / मास्तु वैजात्यमित्यत आह तेषामिति / आनन्त्यं च न स्यादिति / व्यक्त्यानन्त्यस्य जीवगुणेष्वपि भावादिति भावः / ब्रह्मणि ज्ञानेच्छादीनामेकजातीयत्वे जीवेऽपि तेषां तथात्वं स्यात् ततश्च दोषमाह-ज्ञानेच्छादीनामिति / आनन्दादपि भेदा. दिना दुनिरूपा गुणा इत्याह-एवमिति / नास्त्येवेति / मानाभावादिति शेषः / नन्वानन्दत्वं नामेष्टत्वं तच्च सर्वत्रास्तीत्याशङ्क्याह-न च तेषामिति / हेयत्वापातादिति | 58