________________ तृतीयः परिच्छेदः 441 यत्तु वेदान्तेन जानामीति ब्रह्मणोऽपि ज्ञानविषयत्वमनुभूयत इति, तत्तथैव, वेदान्तजन्यबृत्तिविषयत्वात् / विज्ञातारमरे केन विजानीयादिति श्रुतिः। स्फुटं साटोपमाह स्म तस्मानात्मा स्वगोचरः॥ दृश्यत्वे प्रकारभेदाः यत्तु कल्पितभेदात आत्मापि चैतन्यगोचर इति / तन्न। तत्रापि विषयिणो विषयाभेदात् / न हि कल्पितभेदवान् विषयी विषयो वा चिद्भवति / व्यावृत्ताकारेण तु विषयत्वेऽपि न नः क्षतिः। तस्य तेन रूपेण शास्त्रार्थत्वात् / अतो न व्यभिचारो नवाऽसिद्धिः। दृश्यत्वस्य च दृश्यत्वं स्वरूपमेव सत्ताया इव सत्त्वम् / न च सत्त्वं तद्वत्ति स्वबृत्तित्वानुपपत्तरित्युक्तम् / न चैन भागासिद्धिः / तस्यापक्षत्वात् / हेत्वन्तरादेव तत्मिथ्यात्वसिद्धिः / ग्रन्थे तु पररीत्या तत एव तन्मिथ्यात्वसिद्धिरित्युक्तम् / अथवा प्रतिपदार्थ दृश्यत्वमन्पदेव दृश्यत्वताक्रान्तं दृश्यत्वं हेतुरिति तत एव तन्मिथ्यात्वसिद्धि / नापि स्ववृत्तिता। अथवा स्वसमानसत्ताकभेवप्रतियोगिचैतन्यजन्यव्यवहारविषयत्वं दृश्य__ अत्र नवीनोक्तमन्द्य निराकरोति-यत्त्वित्यादिना। किञ्च येनेदं सर्व विजानाति तं केन विजानीयात्' इत्यात्मनः स्वव्यतिरिक्त प्रकाशविषयत्वं निराकृत्य 'विज्ञातारमरे केन विजानीयादिति स्वविषयत्वस्यापि निराकरणादात्मनो न दृश्यतेत्याह- श्लोकेन विज्ञातारमिति / चैतन्यस्य वस्तुत एकत्वेऽपि चैत्रमैत्रचैतन्ययोः कल्पितभेदेन विषयविषयिभावोऽस्तीति केनचिदुक्तमनुवदति-यत्त्विति / तत्र किंचिन्मात्रं विषयः तत्तादात्म्यविशिष्टं वा? आद्ये विषयिणश्चिन्मात्रस्य धर्मिसमसत्ताकभेदाभावान्न विषयत्वमित्यभिप्रेत्याहतन्नेति / द्वितीये विशिष्टाकारस्याशास्त्रार्थत्वेन मिथ्यात्वान्न व्यभिचार इत्याह-व्यावृत्ताकारेणेति / फलितमाह-अत इति / ननु दृश्यत्वे दृश्यत्वमस्तीति चेत् स्ववृत्तित्वापातः नास्ति चेद्भागासिद्धिः इत्याशङ्ख्याह-दृश्यत्वस्य चेति / हेत्वन्तरादिति / जडत्वादिहेतोरित्यर्थः, कथं तर्हि चित्सुखाचार्यैः दृश्यत्वस्यापि तेनैव मिथ्यात्वसिद्धिरित्युक्तम् इत्यत आह-ग्रन्थे त्विति / आचार्योक्तेरभिप्रायान्तरमाह-अथवेति / परस्परव्यावृत्ततत्तद्विषयघटितदृश्यत्वस्यकत्वासंभवात् तन्नानात्वमावश्यक, ततश्च दृश्यत्वेऽपि दृश्यत्वान्तरसंभवान् ततः तस्मिन् मिथ्यात्वसिद्धिरित्यर्थः। दृश्यत्वपदस्यार्थान्तरमाह- अथवेति / स्वशब्दः समभिव्याहृतपरः स्वसमानसत्ताको यद्भदः तत्प्रतियोगि यच्चैतन्य तज्जन्यव्यवहारविषयत्वमित्यर्थः / ब्रह्मणोऽपि चैतन्यव्यवहारविषयत्वमस्तीति स्वसमानेत्यादिविशेषणम् / न ब्रह्मणि व्यभिचारः न वा भागासिद्धिरित्यपि द्रष्टव्यम् /