________________ ( 2 ) नेश्वरसाधकत्वं अनुकूलतर्काभावात् कृतिसाधनेऽपि ईश्वरे ज्ञानेच्छयोरसाधनात् / शरीरजन्यत्वाद्युपाधेरनुमाने दुरित्वात् / वेदैकवेद्यत्वं च तत्त्वमस्यादिवाक्यात् ब्रह्मैक्यविषयकापरोक्षसाक्षात्कारजननात् 'तमसस्पारं दर्शयति' "दृश्यते त्वचया बुद्धया" "तस्मिन् दृष्टेपरावरे" इत्यादिश्रुतिभिः ब्रह्मणः साक्षात्कारविषयत्वप्रतिपादनात् / शब्दस्य साक्षात्कारजनकत्वं च विषयस्य सन्निहितत्त्वे दशमस्त्वमसीत्यादौ प्रसिद्धम् / अत्र प्रसंगात् नैयायिकोक्तालौकिकसन्निकर्षों निराक्रियते मनसः साक्षात्कारजनकता च / कार्य वेदार्थ इति प्राभाकरमतं च निराक्रियते, अत्र चान्यथाख्यात्यख्यातिसत्ख्यातीनां निरासपूर्वकमनिर्वचनीयख्यातिव्यवस्थापनम् प्रपञ्चमिथ्यात्वस्य श्रुत्याऽनुमानेन च व्यवस्थापनं च हृदयङ्गमम् / अत्र च ब्रह्मणः निर्गुणत्वस्थापने बहु पराक्रान्तं ग्रन्थकृता। तत्र च ब्रह्मगुणवद् द्रव्यत्वादिति नानुमान युक्तं ब्रह्मणः द्रव्यत्वासिद्धेः। ब्रह्मणः आदित्यवर्णत्वं च स्वप्रकाशत्वेन न रूपवत्त्वेन। ब्रह्मणो मूर्तिमत्त्वे शिवब्रह्मादिभेदेनानेकतापत्तिः नारायणवत् श्रीरुद्रोऽपि ब्रह्मकोटिरेव / तस्य ज्ञानं स्वप्रकाशम् तदतिरिक्तगुणाः न स्वप्रकाशाः। ब्रह्मविष्ण्वादिशरीराणि मिथ्याभूतान्येव तेषां सर्वज्ञत्वमपि मिथ्यैव ज्ञानस्य स्वरूपत्वेन सत्यत्वेपि सर्वस्य विषयस्य मिथ्यात्वात् / तदेवं तत्पदार्थः शुद्धः परमात्मा, तदभेदज्ञानान्मोक्ष इति निर्णयः। अद्वैतदीपिकाकृतां शिष्यः श्रीनारायणाश्रमिभिः विस्तरेण मूलस्य व्याख्यातत्वात् टिप्पणकृत्यमपि तैरेव नियूंढमिति मया तत्र न व्यापार्यते। मूले सम्मतिप्रदर्शनाय कृता उद्धाराः सर्वे प्रसिद्धा एव प्रसिद्धोपनिषत्सु दृश्यन्त इति तेषामाकरोऽपि नात्र सूचितः। ___ अत्राङ्गलमयेनामुखेनेमं ग्रन्थं भूषितवद्भयः सर्वदर्शनपारङ्गतेभ्यः विद्वबन्धुभ्यः कुलपतिश्रीगौरीनाथशास्त्रिमहाभागेभ्यः सविनयं कृतज्ञतां समर्पयामि /