________________ 270 सटोकावतदीपिकायाम त्वेऽपि द्रष्टव्यम् / न च प्रमाविषयत्वाख्यप्रमेयत्वं केवलान्वयि प्रमातद्विषयातिरिक्तस्य प्रमाविषयत्वस्यैवाभावात् / तयोश्चाकेवलान्व. यित्वात् / अतिरिक्तविषयतायाश्च तैरेव निराकरणात् / . . यच्च प्रमात्वमेव प्रमेयत्वम् / परम्परासम्बन्धेन तस्य घटादावपि सत्वादिति / तन्न / वृत्तिमदत्यन्ताभावप्रवियोगित्वेना. केवलान्वयित्वात् // ___किं च प्रमात्वमेव यदि प्रमेयत्वं तर्हि सर्वमुक्तौ न प्रमेयत्वम् / प्रमाव्यक्तिघटितप्रमात्वस्य तदभावेऽभावात् / ईश्वरज्ञाने तदाऽपि प्रमात्वमस्तीति चेत् न तस्याप्रमात्वात् / आह-न चैवमिति / प्रमेयत्वं नाम प्रमाविषयत्वं तच्च प्रमातद्विषयस्वरूपमेवेप्यनुपदमेव वक्ष्यते, तथा च प्रमेयत्वस्य नानात्वादेकस्यापरवैशिष्टयमुपपद्यत इति भावः। प्रमेयत्वस्यकत्वेऽपि तत्स्वरूपमेव विशिष्टप्रत्ययविषय इति सदृष्टान्तमाहअथ वेति / यथा घटभेदो घटभिन्न इति विशिष्टप्रत्ययविषयो घटभेदस्वरूपमेव भेदे भेदान्तराङ्गीकारेऽनवस्थापत्तेः / यथा वा घटाभावे घटो नास्तीति प्रतीतेस्तस्वरूपमेव विषयः / घटाभावे तदभावान्तरस्याभावादेवमत्रापीत्यर्थः। यदुक्तम् अत्यन्ताभावप्रतियोगित्वं कुतश्चिद्वयावर्तते न वेत्यादि तत्राह-एवमिति / तस्यापि नानात्वात् / एकत्वेपि स्वनिष्ठत्यन्ताभावप्रतियोगित्वाच्चेत्यर्थः / प्रमेयत्वस्यापि नानात्वेनाकेवलान्वयित्वमित्याह-न चेति / अत्र केनचित्ताकिकापसदेनोत्प्रेक्षित प्रमात्वमेव प्रमेयत्वम् / तच्च केवलान्वयीति तदनुवदति-यच्चेति / परम्परासम्बन्धे. नेति / प्रमात्वाश्रयप्रमाविषयत्वसम्बन्धेनेत्यर्थः / किं प्रमात्वं साक्षादेव केवलान्वयि उत परम्परासम्बन्धेन किं वा तदुभयसाधारण्येन ? / नाद्यः / घटादौ साक्षात्तदभावात् / न द्वितीयः। प्रमायां परम्पराया अभावात् / न तृतीयः। स्वस्मिन्नेवोभयथाऽप्यभावात् / घटत्वादेरपि साक्षात्परम्परासम्बन्धेन केवलान्वयित्वापातात्। तद्वति तत्प्रकारकज्ञानत्वादिरूपस्य तत्तद्वैशिष्टयप्रतिभासाद्यनेकात्मकस्य प्रतिप्रमायां भिन्नस्वेनैकत्वायोगाच्चेत्यभिप्रेत्याह-तन्नेति / /