________________ 268 सटीकाद्वैतदीपिकायाम् त्वेन, गौरवात् / आत्मव्यवहारे आत्माभिन्नप्रकाशस्याऽनात्मव्यवहारे च तद्विषयप्रकाशत्वेन कारणत्वम् / न च घटादेरपि प्रकाशविषयत्वं मास्त्विति वाच्यम / प्रकाशमात्रस्य तद्व्यवहारकारणत्वे. ऽतिप्रसङ्गात // घटस्य प्रकाश इत्यनुभवस्यासति बाधके प्रामाण्यत्यागा. योगाच्च / न च साध्याप्रसिद्धिः। प्रथमसाध्याभावस्य भावरूपस्य चैतन्यविषयत्वस्य घटादौ प्रसिद्धत्वात् / अत्र गृहीतव्यतिरेकव्याप्तिकस्य पुंसो विनाऽपि साध्यप्रसिद्धि पक्षे तदनुमानसंभवात् / द्वितीयसाध्ये चापरोक्षव्यवहारविषयसंविद् वेद्या न भव. तीति साध्यम् / वेद्यत्वं च संविद्विषयत्वमिति तदभावसिद्धा. वर्थात्फलव्याप्यत्वाभावः पक्षे सिद्ध्यति / तिरिक्तोऽस्तीति भावः / यद्वा यथा ज्ञानसामान्यसामग्रीत एवासति संस्कारेऽनुभवरूपविशेषकार्यम् / यथा वा तत एवासति दोषे स्वतस्त्वमते प्रमारूपकार्यविशेषः एवं प्रकाशमात्रा वासति असतिभेदे-संस्कारे सति व्यवहारविशेष इत्यर्थः / तर्हि घटादावपि सामान्यकारणादेव व्यवहार विशेष इत्याशङ्कामतिप्रसङ्गेन दषयति--न चेति / घटादावपि प्रकाश भेद एव विशेषकारणमिति मन्वानं सुगतं प्रत्याहघटस्येति / चिजडयोर्वास्तवाभेदायोगाद्भेदानुभवविरोधाच्चेत्यर्थः / यच्चोक्तमप्रसिद्धविशेषणः पक्ष इति तद् दूषयति-न चेति / साध्याप्रसिद्धिरिति / दोषायेति शेषः / अभावप्रसिद्धौ प्रतियोगिप्रसिद्धस्तन्त्रत्वात्संविद्विषयत्वरूपप्रतियोगिनो घटादावनुभूतित्वाभावेन व्याप्ततया गृहीतत्वादनुभूतित्वहेतोयतिरेकव्याप्तिपक्षधर्मतयोः सत्त्वादाद्यलक्षणलक्षितसाध्ये साम्राज्यमित्यभिप्रेत्याह-प्रथमेति / द्वितीयलक्षणे विशेष्यस्यात्मनि सिद्धस्य पक्षकोटौ निवेशसंभवाद्विशेषणमात्रस्यावेद्यत्वस्य व्यतिरेकव्याप्तिमद्धेतुबलासिद्धावर्थाद्विशिष्टलक्षणसिद्धिरित्यभिप्रेत्याह-द्वितीयेति / अर्थादिति / फलविषयत्वे संविदविषयत्वायोगादित्यर्थः / फलाव्याप्यत्वस्य मुखतः