________________ 266 सटीकाद्वैतदीपिकायाम् फसस्य विषयावच्छेदव्यवहारात् / चैतन्यात्मनो ब्रह्मणः स्वस्वरूपचैतन्यानवच्छेदकत्वात् / चैतन्यान्तरस्य चाभावात् / घटादेश्च चैतन्यावच्छेदकत्वं निरूपितमिति न तदभावः। अन्तः करणादि चाभिव्यक्तचैतन्यावच्छेदकम्। न चाविद्यानिवृत्तिरेव फलम् / तस्या एव ज्ञानजन्यत्वात् / तदाश्रयश्च ब्रह्मवेति तदेव फलव्याप्यं न घटारिरिति वाच्यम्। अविद्यानिवृत्तेश्चैतन्यमात्रत्वेनाश्रयाश्रयिभावाभावात् / ___ अस्तु वा तदपिफलं तथापि तद्वत्वं न फलव्याप्यत्वं विवक्षितम्, किन्त्वभिव्यक्तचैतन्यावच्छेदकत्वमेव / न च ब्रह्मणः फलव्याप्यत्वाभावेऽपरोक्षत्वं न स्यादिति वाच्यम् / प्रमात्रव्यधानेन प्रकाशमानत्वमात्रेणापरोक्षत्वोपपत्तः। संवित् सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः" इति / फलस्वरूपं प्रदर्शयंस्तदव्याप्यत्वमाह-फलस्य चेति / प्रमातृधर्मवृत्त्यतिरिक्तफलमेव नास्तीत्याशङ्कयाह-घट इति / आत्मा फलव्याप्यः अपरोक्षत्वात् संमतव दित्याशङ्कय किं स्वरूपचैतन्यव्याप्यत्वं साध्यते उत स्वातिरिक्तचंतन्यव्याप्यत्वम् ? / नाद्यः / भिन्नयोरेवावच्छेद्यावच्छेदकभावादित्यभिप्रेत्याह-चैतन्येति / द्वितीयं दूषयति-चैतन्यान्तरस्येति / घटादेरपि वृत्तिविषयत्वव्यतिरेकेण न फलव्याप्यत्वम् / तथा च तत्रातिव्याप्तिरित्याशङ्कथाह-घटादेरिति / अनावृतप्रमातृचैतन्यतादात्म्यं विना तदापरोक्ष्यानुपपत्तिरित्यादिकं निरूपितमित्यर्थः। अज्ञा. नान्तः करणतद्धर्मेष्वतिव्याप्तिमाशङ्कयाह-अन्तःकरणेति / ननु क्रियासाध्यस्यैव फलत्वात् , ज्ञानक्रियासाध्याविद्यानिवृत्तिरेव फलम् / तथा च ब्रह्मैव फलव्याप्यमिति न वाच्यमित्याह-न चेति / हेतुमाह-अविद्येति / आरोपिताभावस्याधिष्ठानमात्रत्वप्रसाधनादिति भावः / अविद्यानिवृत्तिरधिष्ठानाद्भिन्नेतिमतेनाहअस्तु चेति / अभिव्यक्तचैतन्यावच्छेदकत्वलक्षणफलव्याप्यत्वस्यैव घटादावपरोक्षस्वप्रयोजकत्वाद् तदभावे ब्रह्मण आपरोक्ष्यं न स्या दत्याशङ्कय हेत्वसिद्ध्या दूषयतिन चेति / अनावृतचैतन्याव्यवधानमेवार्थापरोक्षत्वप्रयोजकम् / तच्च घटादौ तेनाध्यासिकतादात्म्य प्रयुक्तम् / ब्रह्मणस्तु स्वत एवेति भावः /