________________ 260 सटोकातदीपिकायाम नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वात्यन्ताभावानधिकरणत्वम् / मोक्षदशायां तस्याप्यभावात् / न हि तदा ब्रह्मण्यत्य. न्ताभावानधिकरणत्वाख्यः कश्चिडर्मोऽस्ति / ब्रह्मणस्तथाभूतयो ग्यत्वात्यन्ताभावाधिकरणत्वाच्च / अन्यथा ब्रह्मगततयोग्यताया मिथ्यात्वन्न स्यात् / स्वात्यन्ताभावसमानाधिकरणस्यैव मिथ्यात्वात् / न च व्यावहारिको योग्यताऽन्यन्ताभावो ब्रह्मणि नेति वाच्यम् / ब्रह्मातिरिक्तस्य तस्य व्यावहारिकत्वात् / नापि ब्रह्मणोऽवेद्यत्वम् / तस्य वृत्तिवेद्यत्वात् / / वृत्त्यव्याप्यत्वलक्षणं निरस्य फलाव्याप्यत्वं निरस्यति नापि फलाव्याप्यत्वमवेद्यत्वम् / ब्रह्मणोऽपि चरमसाक्षाकारवृत्तिप्रतिविम्बितचैतन्यव्याप्यत्वात् / ननु वृत्तिविम्बितचिद यति--नाप्यवेद्यत्वे सतीत्यादिना / व्यवहारदशायामपि योग्यत्वात्यन्ताभावस्य ब्रह्मणि सत्त्वादसम्भवश्चेत्याह-ब्रह्मण इति / ननु तदा ब्रह्मणि तद्योग्यत्वमेव, न तदत्यन्ताभाव इत्याशकय तस्य मिथ्यात्व निर्वाहार्थ तदभावोऽपि वक्तव्य इत्याह --- अन्यथेति / ननु तद्योग्यताप्रतियोगिकव्यावहारिकात्यन्ताभावानधिकरणत्वमेव तल्लक्षणम् / ब्रह्मणि च न तद्वयावहारिकात्यन्ताभावः प्रतियोगिसमानसत्ताकाभावस्य तत्सामानाधिकरण्यविरोधात् / किं तु पारमार्थिक एव तदत्यन्ताभावो ब्रह्मणि / तथा च नासम्भव इति चेन्न / ब्रह्मव्यतिरिक्तस्य पारमार्थिकत्वेऽद्वैतहानेः सोऽपि व्यावहारिको वाच्यः। ततश्च तत्समानसत्ताकयोरपि विरोधो ब्रह्मणोऽ न्यत्रैव वाच्यः। तथा चासम्भव एवेत्यभिप्रेत्याह--न च व्यावहारिक इति / विशेज्यासम्भवमुक्त्वा विशेषणासम्भवमाह--नापीति। किमवेद्यत्वं वृत्त्यव्याप्यत्वं फलाव्याप्यत्वं वा ? / नाद्य इत्याह-तस्येति / / न द्वितीय इत्याह-नापीति // फलस्वरूपं वदन ब्रह्मणस्तद्वयाप्यत्वमेव नेति शङ्कते-नन्विति / घटादावनित्यज्ञानविषयत्वव्यतिरेकेण नित्यज्ञानाश्रयत्वाभावात्तदेव पलं तद्विषयत्वं च ब्रह्मणोऽपि तुल्यमित्याह-न घटादाविति किं च लक्षणवाक्यगतापरोक्षव्यवहारपदेनापरोज्ञानजन्यो व्यवहारो विवक्षितः, लौकिकापरोक्षज्ञानजन्यो वा, अपरोक्षोऽयमित्याकारो वा ? / प्रथममतिव्याप्स्या दूषयति-अपरोक्षेति / द्वितीयमनूद्य दूषयति-अनाग