________________ ર૬૪ सटीकाद्वैतदीपिकायाम प्रश्नस्योत्तरमात्मैवास्य ज्योतिरिति / तथा चात्मैवात्मादिव्यवहारनिमित्तप्रकाश इत्येवार्थः। न त्वस्य ज्ञानकरणमोश्वर इति / आत्मैवास्येति भेदनिर्देशोऽपि अहमतिरिक्तात्मप्रकाश इति न विरुध्यते / अत एवोपसंहारेऽपि नानुषगगौरवम् / अयमिति च प्रश्नेष्विव जीवपरामर्शोऽप्युपपचते। आत्मशब्दस्य जीवे मुख्यत्वसमर्थनम् / यच्चात्मशब्दस्य परमात्मन्येव मुख्यत्वमिति; तन्न / किं जीवे शक्ति ग्रहनिमित्तप्रचुरप्रयोगाभावादात्मपदस्य न शक्तिः, किं वाऽऽत्मशब्दस्य सति योगे न रूढिः। योगश्च न परिच्छिन्ने जीव इति / अथवाऽऽत्मशब्दाज्जीवप्रत्ययस्य लक्षण. याप्युपपत्तौ न जीवे तच्छक्तिरिति ? नाद्यः / श्रुतौ स्मृतौ लोके च जीवेऽप्यात्मशब्दस्य प्रचुरप्रयोगसत्त्वात् / नापि द्वितीयः / जीवस्याणुत्वनिरासेन स्वाभाविकमध्यमपरिमाणस्याप्ययोगा. द्योगयुक्तत्वात्। साक्षाद्व्यवहारनिमित्तप्रकाशप्रश्नोत्तरमेवं सति भवतीत्याह-तथा चेति / यदुक्तमस्येतिभेदनिर्देशाज्ज्योतिष्ट्रमात्मनोऽनुपपन्नमिति / तन्न / व्यवर्तुरहमर्थस्यैवेदंशब्दार्थत्वात्तद्भिन्नाकरणात्मनो ज्योतिष्ट्रोपपत्तेरित्याह-आत्मैवेति / अत्रायं पुरुषः स्वयं ज्योतिरित्यस्याप्यस्येत्यनुषंगमन्तरेणैवार्थ वत्त्वान्न तदनुषंगः कार्य इत्याह-अत एवेति / किं ज्योतिरेवायं पुरुष इति प्रश्नेऽयमिति पदस्य जीवपरत्वादत्रायं पुरुष इत्यत्रापि जीव एवायंपदार्थ इत्याह-अयमिति चेति / यच्चोक्तं धुभ्वाद्यधिकरणन्यायेनात्मशब्देन परमात्मैव कथ्यत इति, तदनूद्य दूषयतियच्चेति / जीव एवात्मपदस्य शक्तिरिति वक्तं तत्र शक्त्यभावे बीजं विकल्पयति-- किं जीव इति / सति योग इति / अतति व्याप्नोतीत्यात्मेति योगे सति न रूढिः कल्प्या. कलुप्तयोगस्य कल्प्यरूढिबाधकत्वादित्यर्थः। “यः प्राणेन प्राणिति, स आत्मा सर्वान्तरः। आत्मानं रथिनं विद्धि, य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति अयमयमात्मा ब्रह्म' इत्यादिश्रुतौ,-- "उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् / ' "यावबुद्धीन्द्रियप्राणरात्मनः सन्निकर्षणम् // "