________________ 152 सटोकाद्वैतदीपिकायाम् संसर्गविशेषस्याननुभूतत्वात् गजादिमात्रज्ञानिनोऽपि स्वप्ने जाग्रतीव तदाकारविशेषानुभवस्य कालान्तरीयतथाविधस्मृतिसमर्थस्य दर्शनाच्च / तस्माद्विषयगतं स्फुरणमेव विरोधिकोट्यन्तरसंसर्गग्रहप्रतिबन्धकतया स्वप्ने संशयविरोधिकालान्तरीयपटुतरस्मृतिहेतुश्च वाच्यम्। ___एतेनान्धस्य विरोधिकोटयन्तरोपस्थितिसंभवात् परोदेशे तत्संशयः / निद्राणस्य तु सा नेति न संशय इति प्रत्युक्तम् / स्वप्ने विषयविपरीतस्मृत्यभावस्य नियन्तुमशक्यत्वात् / नच स्वप्नज्ञानस्य प्रामाण्यग्रहान्न तदा तद्विषयसंशय इति वाच्यम / तस्य भ्रान्तित्वात् / तद्ग्राहकलिङ्गायभावाच्च / स्वत एव तद्ग्रहे ऽन्धस्यापि तत्प्रसङ्गात् // ग्रामाण्यग्रहस्य भ्रमत्वनिरासः अविद्यमानमपि प्रामाण्यमारोप्यत इतिचेन्न / विषयस्फुरणशून्ये रूपादिगोचरमानसज्ञाने अन्धस्येव स्वप्नज्ञाने प्रामाण्या मूलानुभवजन्यत्वप्रयुक्तम् , परोक्षानुभवस्य तर्कानुगृहीतकारणविशेषजन्यत्वप्रयुक्तम , प्रत्यक्षे तु विषयस्य प्रमात्रव्यवधानप्रयुक्तम् / तदुत्प्रेक्षितस्वाप्नज्ञानस्य उक्तान्यतमप्रयोजकाभावादन्धादिज्ञानवत् संशयानुकूलतैव स्यादित्यभिप्रेत्याह-. अर्थसत्तानिश्चयेति / ननु स्वप्नज्ञानस्याप्यनुभूतविषयत्वांशे सत्तानिश्चयत्वं न तु विशेषसंसर्गविषयत्वांश इत्याशक्य तदंशेऽपि तदा संशयविरोधित्वादिकमनुभूयत इत्याह-गजादीति / पररीत्या सत्तानिश्चयत्वादेरसंभवादनावृतस्व. प्रकाशसाक्षिणि सुखादिवदध्यस्तत्वादेव स्वप्नगजादेः संशयागोचरत्व मित्युपसंहरति-तस्मादिति / तव मते निद्रायाः स्मृत्य विरोधित्वात् तत्प्रयुक्तं चान्धानुभववैषम्यमयुक्तमित्याह-एतेनेति / वषम्यान्तरं निराकरोति-न चेति / किं प्रामाण्यग्रहः प्रभा उत भ्रमः ? / नाद्य इत्याह-तस्येति / स्वप्नज्ञानस्येत्यर्थः। किं च तत्प्रामाण्यं स्वतो गृह्यते उत परतः ? / न द्वितीय इत्याह-तद्ग्राहकेति / समर्थप्रवृत्तस्तत्राभावादित्यर्थः / प्रथमं दूषयति-स्वतः एवेति / / प्रामाण्य ग्रहो भ्रम इति पक्षं शङ्कते-अविद्यमानेति /