________________ अस्यैव जीवितस्यार्थं प्रशंसा -सन्मानपूजनार्थं च प्रवर्त्तमाना जातिमरणमोचनार्थं च क्रियासु प्रवर्त्तमानाः प्राणिनः कर्म आददते। परिज्ञातव्याश्चैते सर्वेऽपि कर्मसमारम्भा एवमेव मुनिभावसम्भवादिति। पृथ्वीकायः // 1-1-2 // आर्तो लोको निस्सारो दुस्सम्बोधो विशिष्टबोधरहितश्च। विषयकषायादिभिरातुरा जीवाः प्रकर्षेण व्यथिते पृथ्वीकायलोके तेषु तेषु कृष्यादिकार्ये