________________ वशं न गच्छेत्। इदमेव तत्पाण्डित्यं यत् स्ववशितेति हृदयम्। तथा विमुक्तस्य परिज्ञाचारिणो धृतिमतो दुःखक्षमस्य भिक्षोः पूर्वकृतं कर्म ज्योतिःसमीरितरूप्यमलवद् विशुद्धयति। निराशंसस्त्यक्तमैथुनो मुनिः परिज्ञासमये वर्तते। दुःखशय्यातोऽसौ तथा मुच्यते, यथा जीर्णत्वचः सर्पः। दुस्तरमहासागरोपमोऽयं संसारः, तत्परिज्ञाता तदन्तकृदुच्यते। कर्मबन्धमोक्ष