________________ प्रथममहाव्रते सूक्ष्मादिजीवातिपातस्य यावज्जीवं त्रिविधं त्रिविधेन त्यागः, पूर्वकृतस्य प्रतिक्रमणादि। तद्भावनापञ्चकम् (1) इर्यासमितिः (2) मनोगुप्तिः (3) वचोगुप्तिः (4) आदानसमितिः (5) दृष्टान्नपानग्रहणम्। एतावता महाव्रतं सम्यक् कायेन स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवति। द्वितीयमहाव्रते क्रोधादिना सर्वमृषावादस्य यावज्जीवं त्रिविधं त्रिविधेन त्यागः। प्राकृतप्रतिक्रमणादि च।