________________ 214 श्रीयतिदिनचर्या अवचूर्णियुता पाक्षिकचातुर्मासिकसांवत्सरिकादिषु चतुर्थषष्ठाष्टमरूपं तपो देयं, पश्चात् पाक्षिकसूत्रं, पुनस्ततोऽपि प्रतिक्रमणसूत्रं, पश्चात् वन्दनकं, पश्चात् प्रत्येकं क्षामणं, सम्बुद्धाक्षामणमिति 'जं किंचि अपत्तियं' इत्यादि पठति, तत्र जघन्यतस्त्रयः साधवः क्षाम्यन्ति, उत्कर्षतः सर्वेऽपि यदाहुः"देवसियचउम्मासियसंवच्छरिएसु पडिक्कमणमज्झे / मुणिणो खामिजंति तिन्नि तहा पंच सत्त कमा // 1 // " ततोऽपि गुरुरूर्वीभूय प्रत्येकक्षामणकं च कारयति; ततः पुनरपि वन्दनं, पश्चात् करेमि भंते ! सामाइयं पठन्ति // 139 // तत्पठिते मूलोत्तरगुणशुद्धये-मूलोत्तरगुणविशोधनार्थं करेमि कायोत्सर्गं, ततः उच्छासशतत्रयमानं कायोत्सर्गं कुर्वन्ति, द्वादशवारांश्चतुविंशतिस्तवं चिन्तयतीत्यर्थः, सर्वेऽपीति शेषः, पारिते चतुर्विंशतिस्तवमुच्चैरुत्कीर्त्य मुखवस्त्रिका प्रतिलिख्य वन्दनकं च दत्त्वा पर्यन्तक्षामणाः क्षाम्यन्ते समाप्तिक्षामणाः क्रियन्ते, अहमपि क्षाम्यामीति गुरोर्वाक्यं, पाक्षिकक्षामणाचतुष्टयं कुर्वन्ति, तत्र 'इच्छामि खमासमणो' इत्यादिपूर्वकं 'पियं च मे जं भे' इत्यादि पठति, अथ द्वितीयं-'इच्छामि ख० पुव्वि चेइयाई' इत्यादि, अथ तृतीयं-'इच्छामि ख० अब्भुट्टिओह'मित्यादि, अथ चतुर्थं-'इच्छामि० कयाइं च' इत्यादि, ततः परिहारेण आत्मानं सङ्क्षिप्य निःस्तारकाः परेषां पारगा आत्मनः संसारसमुद्रात् भवतेति गुरुवचनं, शेषं सर्वं स्पष्टम् / अत्र सङ्ग्रहगाथा - अहमवि खामेमि तुब्भे तुब्भेहिं समं मत्थएण वंदामि / आयरिय संति नित्थारपारगउ गुरूण वयणाइं // 1 // उत्तानार्थेयं, एवं गतं पाक्षिकं, अनयैव परिपाट्या चातुर्मासिकं सांवत्सरिकं च, नवरं तत्र पञ्चशतोच्छासमानः कायोत्सर्गः, विंशतिवारांश्चतुर्विंशतिसूत्रं चिन्तयन्तीत्यर्थः, तथा सांवत्सरिके अष्टोत्तर