________________ 164 श्रीयतिदिनचर्या अवचूर्णियुता यथा - "गिहि जिणपडिमा भत्ती चेइयं 1 उत्तरंगघडियंमि / जिणबिंबे मंगलचेइयं तु समयन्नुणो बिंति 2 // 1 // निस्सकडं जं गच्छस्स संतियं 3 तदियरं अनिस्सकडं 4 / सिद्धाययणं च इमं 5 चेइयपणगं विणिद्दिद्वं // 2 // " अथवा "नीयाइं सुरलोए भत्तिकयाइं च भरहमाईहिं / निस्सानिस्सकयाई मंगलकयमुत्तरंगंमि // 1 // वारत्तस्स य पुत्तो पडिमं कासीय चेइए रम्मे / तत्थ य थले अहेसी साहंमीचेइयं तं तु // 2 // " अत्रेयं कथा-वारत्तपुरं पुरं अभयसेनो राजा वारत्तको मन्त्री, तद्गेहे धर्मघोषमुनिभिक्षां ग्रहीतुं जगाम, तद्भार्या घृतखण्डयुतं पात्रमुत्पाटितवती, बिन्दुः पपात, छर्दितदोष इति निर्गतो मुनिः, मत्तवारणस्थो मन्त्री किमेवंविधापि भिक्षा मुनिना न गृहीतेति यावत् चिन्तयति तावत् तत्र बिन्दौ मक्षिकाः पेतुः, तद्भक्षणाय गृहगोधिका, तस्या अपि सरटः, तस्यापि मार्जारी, तस्या उपरि श्वा, तदुपरि तत्र वास्तव्यः श्वा, तत्कृते स्वामिनोऽभूल्लकुटालकुटि, तद् दृष्ट्वा मन्त्री चिन्तयामास-अहो सुदृष्टो धर्मः साधूनामप्येष एव, त्रयाणामितिवैराग्याज्जातिस्मरणमुत्पन्नं, ततो देवतार्पितलिङ्गश्चिरं संयममनुपाल्य समुत्पन्नकेवलः सिद्धः, तत्पुत्रेण स्नेहात् चैत्यं कारयित्वा रजोहरणमुखवस्त्रिकासहिता पितृप्रतिमा तत्र - स्थापिता, तत्र शाला च प्रवर्तिता, तत्र स्थलीति अभूत्, तत्र साधर्मिकचैत्यमभूत् // 62 //