________________ नैषधीयचरिते यः प्रेयमाणोऽपि हृदा मघोनस्त्वदर्थनायां ह्रियमापदागः / स्वयंवरस्थानजुषस्तमस्य बधान कण्ठं वरणरजाशु / / 79 / / अन्वयः- ( हे दमयन्ति ) मघोनः यः ( कण्ठः ) त्वदर्थनायाम् हृदा प्रेयंमाणः अपि ह्रियम् आगः आपत् स्वयंवररथानजुषः अस्य तम् कण्ठम् वरणस्रजा ( त्वम् ) आशु बधान / टीका-(हे दमयन्ति ) मघोन: इन्द्रस्य यः कण्ठः तव अर्थनायाम् याञ्चा• याम् त्वद्-याचना-विषये इत्यर्थः हृदा हृदयेन प्रेर्यमाणः प्रणुद्यमानः अपि ह्रियम् लज्जाम् एव आगः अपराधम् आपत प्राप्तः, स्वयंवरस्य स्थानम् (10 तत्पु० ) जुषते सेवते इति तथोक्तस्य ( उपपद तत्पु० ) स्वयंवरस्थानस्थितस्येत्यर्थः अस्य नलस्य तम् कण्ठम् वरणस्य स्वयंवरस्य स्रक माला तया (10 तत्पु० ) त्वम् आशु शीघ्रम् बधान बन्धने प्रक्षिप / ह्रियः कारणात् इन्द्रस्य कण्ठः त्वयि अनुरागं बाचा यन्नावदत् तत्तेन महापराधः कृतः तस्य कृते दण्डस्वरूपं तस्य सञ्बन्धनं क्रियताम् , अपराधिने हि बन्धनं दीयते एवेत्यर्थः / गले वरमालां प्रक्षिप्य इन्द्र वृणीष्वेति भावः / 79 / / व्याकरण-प्रेयमाणः प्र + ईर् + णिच् + शानच् ( कर्मवाच्य ) अर्थना अर्थ + णिच् + युच् + टाप् / आपत् आप् + लुङ् / जुषः + क्विप् (10) / बधान बन्ध+लोट् म० पु० / ___ अनुवाद- हे दमयन्ती ) इन्द्र का जो गला तुम्हारी याचना के विषय में लज्जा-रूपी अपराध कर बैठा है, स्वयंवर-स्थान में पधारे इन ( इन्द्र ) के उस गले को स्वयंवर माला से बाँध दो // 79 // टिप्पणी-यहाँ कण्ठ का चेतनीकरण होने से समासोक्ति, ह्री पर अपराधत्व का आरोप होने से रूपक और दण्डरूप दोष का वरणरूप गुण बन जाने में लेशइन तीनों का संकर है / 'वर वर' में छेक, अन्यत्र वृत्त्यनुप्रास है।। 80 // नैनं त्यज क्षीरधिमन्थनाद्यैरस्यानुजायोद्वमितामरैः श्राः / अस्मै विमर्यक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितुं श्रियं ते // 80 // अन्वयः-(हे दमयन्ति) त्वम् एनम् न त्यज / यैः अमरैः क्षीरधि-मन्थनात् अस्य अनुजाय श्रीः उद्गमिता, ते इक्षुरसोदम् बिमथ्य अन्याम् श्रियम् उत्थापयितुम् न श्राम्यन्तु /