________________ नवमः सर्गः इस दृष्टि से कि अश्रुधारा का नदी-घारा के साथ अभेदाध्यवसाय हो रखा है जिसमें ऊंची-नीची वेतें रहती हैं। किन्तु हमारे विचार से यहाँ रूपक है, वह भी एकदेशविवर्ती, क्योंकि कपोल-तलों पर के रोमाञ्चों पर वैयधिकरण्येन वैतों का आरोप वाच्य है और अश्रुधारा पर नदीत्वारोप गम्य है, 'धुर' 'धारा' 'नम्रोन्नन' 'पालिपुल' में छेक, अन्यत्र वृत्त्यनुप्रास है / / 158 // तदखिलमिह भूतं भूतगत्या जगत्याः पतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् / त्रिभुवनजनयाववृत्तवृत्तान्तसाक्षा त्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् // 159 // अन्वयः-जगत्याः पतिः इह भूतम् तत् अखिलम् स्वात्मदूतत्व-तत्त्वम् त्रिभुवन "कृतिषु इन्द्रादिषु द्राक् निरस्तानन्दम् भूत-त्या अभिलपति स्म / टीका-जगत्याः जगतः पतिः स्वामी नलः इह दमयन्ती-विषये भूतम् जातम् तत् अखिलम् समग्रम् स्वम् स्वकीयम् यत् आत्मदूतत्वम् ( कर्मधा० ) आत्मनः दूतत्वम् तस्य तत्त्वम् याथार्थ्यम् ( उभयत्र ष० तत्पु० ) त्रयाणां भुवनानां समाहारः त्रिभुवनम् ( समाहार द्वि० ) तस्मिन् जनानां लोकानाम् ( स० तत्पु० ) यावान् यावत्परिमाणः सर्व इत्यर्थः वृत्तः जातः वृत्तान्तः समाचार ( उभयत्र कर्मधा० ) तस्य साक्षात्कृतौ प्रत्यक्षीकरणे कृतिषु कुशलेषु इन्द्रः आदी येषां तथाभूतेषु (ब० वी० ) देवेषु द्राक् शीघ्रम् निरस्तः त्यक्तः आनन्दः सन्तोषः यस्मिन् कर्मणि यथा स्यात्तथा स्वकार्यवैफल्यात् खेदपूर्वकमित्यर्थः भूतस्य सत्यस्य गत्या प्रकारेण अभिलपति स्म, अकथयत् / दूतो भूत्वा दमयन्त्या अग्रे यथा नलेन देवपक्षः समर्थितः यथा च तया साभिनिवेशं सोऽपाकृतः, ततश्च नलेन विना नैराश्ये करुणं विलपन्तों तां वीक्ष्य आत्मोन्मादावस्थायां यथा तेन स्वनाम प्रकटितम्, तथैव तत्सर्वं स परमार्थेन सर्वान्तर्यामिनां देवानां समक्षं शशंसेति भावः // 159 // व्याकरण-भूतम/भू + क्त ( कर्तरि ) / त्रिभुवनम् पात्रादि के अन्तर्गत होने से 'त्रिलोकी' की तरह ङीप् नहीं हुआ। तत्त्वम् तस्य भाव इति तत् + त्वल।