________________ नवमः सर्गः बुद्धिः तया (10 तत्पु०) अहं सती, एष दूतश्च परपुरुष इति विचार्येत्यर्थः घृतम् बलात् दूतात् निवर्तितम् च मनः हि निश्चयेन जुगुप्समाना निन्दन्ती सा प्रसिद्धा भीमजा भीमात् जाता भैमीत्यर्थः तम् दूतम् नलम् एतदाख्यं निषधाधिपतिम् अवेत्य बुद्ध्वा निजे स्वीये आशये मनसि विषये घृणाम् जुगुप्साम विगानम् निन्दाम् च मुमोच त्यक्तवती / दूतस्यालौकिकं लावण्यं विलोक्य पूर्वं तु तस्या मनः तं प्रति यावद् गच्छति तावदेव 'अहं पतिव्रताऽस्मि, मम मनसा न परपुरुषे गन्तव्यम् इति विचार्य स्वमनो निन्दती सा तस्मात तत् बलात् परावर्तितवती, किन्तु इदानी दूतं 'नलोऽयम्' इति ज्ञात्वा सा स्वमनो न निन्दति. प्रत्युत स्तोत्येवेति भावः // 137 // व्याकरण-तदा तत् + दा / दैवताम् देवता एवेति देवता + अण ( स्वार्थे) अथवा दैवत देवतानामयमिति देवता + अण् (देवसम्बन्धी दूत)। ०धा व Wधाव + णिन् / धिया ध्यायते इति ध्यै + विप (भावे)। जुगुप्समाना Vगुप्+सन् + शानच् / अवेत्य अव+ इ + ल्यप् तुगागम / विगानम् वि= विरुद्ध गानम् (प्रादि स०)। गानम् /गै + ल्युट ( भावे ) / अनुवाद-उस समय (जब कि यह ज्ञान नहीं रहा कि दूत स्वयं नल है ) देवताओं के दूत की ओर ( सौन्दर्यवश ) दौड़े जा रहे ( तथा ) पतिव्रता का विचार आ जाने से रोके हुए मन की निश्चय ही निन्दा करती हुई वह भैमी उस (दूत ) को नल जानकर ( अब ) अपने मन पर घृणा और उसकी निन्दा करना छोड़ बैठी // 137 // टिप्पणी-कारण बताने से काव्यलिङ्ग अलङ्कार है। 'माना' 'मनो' में छेक, अन्यत्र वृत्त्यनुप्रास है // 137 // मनोभुवस्ते भविनां मनः पिता निमज्जयन्नेनसि तन्न लज्जसे। अमुद्रि सत्पुत्रकथा त्वयेति सा स्थिता सती मन्मथनिन्दिनी धिया // 138 // ___ अन्वयः-(हे मन्मथ ! ) भविनाम् मनः मनोभुवः ते पिता ( अस्ति ) / तत् एनसि निमज्जयन् ( त्वम् ) न लज्जसे ? त्वया सत्पुत्र-कथा अमुद्रि / इति सतीधिया मन्मथ-निन्दिनी स्थिता / टीका-(हे मन्मथ ! ) भविनाम् सांसारिकाणाम् मनः चित्तम् मनः भूः उत्त्पत्ति-स्थानं ( कर्मधा० ) तथाभूतस्य (ब० बी०) ते तव पिता जनकः अस्तीति