________________ नैषधीयचरिते दमयन्तीत्यर्थः इति 'ददेऽपि तुभ्यम्' ( 9 / 131) इत्युक्तप्रकारेण ईरितैः कथितः नषधस्य निषधाधिपतेः सूनुतैः सत्यप्रियवचनैः ( 'सूनृतं प्रिये सत्ये' इत्यमरः ) अमृतैः सुधाभिः इव ( उपमित तत्पु० ) भृशम् अत्यन्तम् ल्ललास उल्लसिता हृष्टत्यर्थः बभूव यथा शिशिरम् शिशिरर्तुम् अनु पश्चात् जन्म यस्य तथाभूतस्य (ब० बी० ) ऋतो: वसन्तस्येत्यर्थः अधिका श्री: शोभेत्यधिश्रीः ( प्रादि स० ) दूरम् यथा स्यातथा विकस्वरैः प्रसरद्भिः श्रयमाणैरित्यर्थः पिकानाम् कोकिलानां स्वरैः आलापैः कू-कू-ध्वनिभिरित्यर्थः (ष. तत्पु० ) उल्लसति विलसति अतिश्राव्यैः कोकिलमधुरालापैः वासन्ती श्रीरिव अतिमधुरैः नलवचनैः दमयन्ती समुल्लसिताऽभवत् इति भावः / एतेन वसन्तश्रीवत् नलवचनानां कामोद्दीपकत्वं व्यज्यते / व्याकरण-सूनृतम् सु + /नृत् + क पृषोदरादित्वाद् उपसर्ग-दीर्घत्वम् / शिशिरः यास्कानुसार 'शीर्यन्तेऽस्मिन् पत्राणि' / जन्मन् /जन् + मनिन् ( भावे) / विकस्वर वि + /कस् + वरन् / अनुवाद--वह दमयन्ती इस प्रकार कहे नल के अमृत जैसे सत्य और प्रिय वचनों से अच्छी तरह यों उल्लसित (हृष्ट ) हुई जैसे शिशिर के बाद आने वाली ऋतु ( वसन्त ) की अत्यधिक शोभा दूर-दूर तक फैल जाने वाली कोयलों की कूकों से उल्लसित (विलसित ) हो उठती है // 136 / / टिप्पणी-यहाँ पर्णोपमा है। यद्यपि उपमेय और उपमान में 'सूनृतामृत' और 'पिकस्वर' भिन्न-भिन्न धर्म हैं तथापि उनका यहाँ बिम्ब प्रतिबिम्ब भाव हो रहा है। दर्पणकार ने विभिन्न धर्मों के बिम्ब-प्रतिबिम्ब भाव सम्बन्ध में भी उपमा मान रखी है। 'कस्वरेर' 'कस्वरेर' में यमक, अन्यत्र वृत्त्यनुप्रास है // 136 // नलं तदावेत्य तमाशये निजे घृणां विगानं च मुमोच भीमजा। जुगुप्समाना हि मनो धृतं तदा सतीधिया देवतदूतधावि सा // 137 / / अन्वयः-तदा दैवत-दूतधावि सती सती-धिया धृतम् मनः हि जुगुप्समाना सा भोमजा तम् नलम् अवेत्य निजे आशये घृणाम् विगानम् च मुमोच / टीका-तदा तस्मिन् काले अयं दूतः नल इति ज्ञानाभावावसरे इत्यर्थः देवतानाम् देवतानाम् दूतः सन्देशहरः (10 तत्पु० ) तस्मिन् धावतीति सौन्दर्याकर्षणात् तं प्रति गच्छतीति तथोक्तम् ( उपपद तत्पु० ) सत्याः पतिव्रतायाः धोः