________________ नैषधीयचरिते __अन्वयः-(हे भैमि ! ) प्रकाश 'रिणी ( त्वम् ) मन्मथ-नाटिका कथम् न वतंसे ? अङ्ग ! तव हारे द्विजराड्-विदूषकः नायकः ( शिरसि ) शिखामणिः च रुचिम् एति। टीका-हे भैमि ! प्रकाशम् स्पष्टम् रोमावलि-सूत्रम् ( कर्मधा० ) रोम्णाम् लोम्नाम् मावलिः पंक्ति: (10 तत्पु०) सूत्रम् तन्तुरिव ( उपमित तत्पु०) धारयतीति तथोक्ता ( उपपद तत्पु० ) अथ च प्रकाशरोमावलिः एव सूत्रधारः नाटकस्य मुख्यपात्रविशेषः ( कर्मधारय० ) अस्यामस्तीति तद्वती त्वम् मन्मथस्य कामस्य नाटिका उपरूपकविशेषः कथम् केन प्रकारेण न वर्तसे अपितु सर्वथा वर्तसे इति काकुः / अङ्ग ! सम्बुद्धी हे दमयन्ति ! तव हारे मौक्तिकस्रजि द्विजानां नक्षत्राणां राजा इति द्विजराट् (10 तत्पु०) चन्द्र इत्यर्थः तस्य विदूषक: विशेषेण दूषकः स्वौज्वल्येन तिरस्कारकः तदपेक्षया रमणीयतर इत्यर्थः नायक: हारमध्यमणिः, द्विजराड-विदूषकः शिखायां मणिः शिरोरत्नम् ( स० तत्पु० ) च रुचिम् शोभाम् एति प्राप्नोति, अथ च तव अङ्गहारे अङ्गविक्षेपे, आङ्गिकचेष्टायामित्यर्थ: ( अङ्गहारोऽङ्गविक्षेपः' इत्यमरः ) नायक: कथापुरुषः शिखायां मणिः यस्य तथाभूतः (ब० वी०), द्विजानां ब्राह्मणानां राजा श्रेष्ठब्राह्मण इत्यर्थ! विदूषकः नाटके नायकस्य परिहासकं मित्रम् च यथोक्तम्-'हासकृच्च विदूषकः' रुचिम् प्रीतिम् एति / त्वम् यौवनेन, अलङ्कारैश्च काममुद्दीपयसीति भावः / / 118 // . व्याकरण-मन्मथः मथ्नातीति मथः /मथ् + अच ( कर्तरि) मनसः मयः इति (पृषोदरादित्वात् साधुः)। प्रकाश प्रकाशते इति प्र+/काश् + , अच् ( कर्तरि ) / द्विजराट द्विजानां राजेति द्विज + V राज् + विप् ( कर्तरि ) / विदूषक: विदूषयतीति वि + Vदुष् + ण्वुल: दीर्घ / अनुवाद-"( ओ दमयन्ती ! ) तुम ( मूर्तरूप ) काम की नाटिका कैसे नहीं हो ? ( शरीर पर ) स्पष्ट हुई सूत्र ( सूत ) जैसी रोमावली रखे तुम सूत्रधार वाली हो / अरी ! द्विजराट् ( चन्द्रमा ) का विदूषक ( तिरस्कार कर देने वाला ) तुम्हारे हार का नायक ( मध्यमणि, मेरु) तथा शिरोरत्न जो चमक रहे हैं, वे तुम्हारे अंगहार ( अंग-नर्तन ) पर प्रसन्न हो रहे नायक ( हीरो) तथा शिर पर रत्न धारण किये द्विजराट् ( श्रेष्ठ ब्राह्मण ) विदूषक (परिहासक पात्र) का काम कर रहे हैं" // 118 //