________________ नैषधीयचरिते अवकाश: अन्तरालम् येभ्यः तथाभूताः (नञ् ब० वी०) वाणा: शराः यस्य तथाभूतस्य (ब० वी० ) भावः तत्ता अस्तु, आवयोः वक्षसोः आलिङ्गने दृढसंघटित. तया नीरन्ध्रत्वात् काम-बाणा: कथमपि हृदये प्रवेशं लब्धं न शक्ष्यन्तीत्यर्थः / मम दृढा अतिकठोरा इयम् उरस: वक्षसः तटी तटम् ( 10 तत्पू० / विस्तृतं वक्ष इत्यर्थः कठोरयोः दृढयोः तव कुचयोः स्तनयोः (10 तत्पु० ) परिचारका सेविका उचिता युक्ता अस्ति, द्वयोः कठोरत्वेन समगुणत्वात् सेव्य-सेवकभावः समुचित एवेत्यर्थः, त्वम् निविडम् माम् आलिङ्ग, येन द्वयोरेवावयोः कामव्यथा शाम्येतेति भावः // 116 // व्याकरण-लग्ने लग + क्त ( कर्तरि ) त को न / नौ आवयोः का वैकल्पिक रूप / द्वये द्वौ अवयवावत्रेति द्वि + तयप्, तपय को विकल्प से अयच् / परिचारिका परिचरतीति परि + /चर + ण्वुल + टाप, इत्व / अनुवाद-"( ओ दमयन्ती। ) गले लग जाओ। कसकर मिले हम दोनों के दोनों हृदयों के बीच काम के बाणों के लिए अवकाश-खाली स्थान-न रहे। मेरी यह कठोर विस्तृत छाती तुम्हारे कठोर कुच-द्वय के लिए योग्य सेविका है" // 116 // टिप्पणी--यहाँ सम के साथ सम का योग बताने से समालङ्कार है। शब्दालंकार वृत्त्यनुप्रास है // 116 // तवाधराय स्पृहयामि यन्मधुस्रवैः श्रवःसाक्षिकमाक्षिका गिरः / अधित्यकासु स्तनयोस्तनोतु ते ममेन्दुलेखाभ्युदयाद्भुतं नखः // 117 // अन्वया-(हे भैमि !) तव अधराय स्पृहयामि यन्मधुस्रवः ( तव) गिरा श्रवः साक्षिकमाक्षिकाः ( भवन्ति ) / ते स्तनयोः अधित्यकासु मम नखः इन्दुलेखाभ्युदयाद्भुतम् तनोतु / टीका-(हे भैमि ! ) अहं तव अपराय अधरोष्ठाय स्पृहयामि त्वदधरपानमभिलषामीत्यर्थः, यस्य अधरस्य मधुनः माक्षिकस्य नवैः द्रवैः तव गिरः वचनानि (सर्वत्र प० तत्पु०) श्रवसी को साक्षिणी साक्षाद् द्रष्टणी (कर्मधा०) यस्य तथाभूतम् (ब० बी० ) माक्षिकं मधु ( कर्मधा० ) ( 'मधु क्षौद्रं माक्षिकादि' इत्यमरः ) यासु तथाभूताः (ब० वी० ) भवन्तीति शेषः। तवाधरोठो मधुमयोऽस्ति, यत्र साक्षिणी त्वदधरनिःसृतमधुरवाणी शुण्वन्ती कणों इति भावः /