________________ नवमः सर्गः 495 यितृणी अक्षिणी नयने ( कर्मधा० ) यस्याः तत्सम्बुद्धी हे मदिराक्षि ! (ब० वी०) मदीये मामके दृशौ नयने स्मितस्य मन्दहासस्य भिया शोभया (10 तत्पु० ). पायसेन क्षीरान्नभोजनेन या पारणा उपवासानन्तरभोजनम् ( तृ० तत्पु० ) तस्याः विधिम् विधानम् ( 10 तत्पु० ) कारय कर्तुम् प्रेरय मन्दं हसित्वा मे नयने प्रीणयेति भावः // 113 // व्याकरण...उद्वेलना उद्गतो वेलामिति उद्वेलः उद्वेलं करोतीति/उद्वेल + ल्यु + टाप् / मदिर मदयतीति/मद् + किरच् / मदीय ममेति अस्मत् + छ,छ को. ईय, अस्मत् को मदादेश। पायसम् पयसा संस्कृतम् अन्नमिति पयस + अण। पारणा पारयतीति/पृ+ ल्यु + टाप् / कारयकृ + णिच् + लोट विकल्प से अण्यन्तावस्था के कर्ता 'दृशी' को कमत्व / अनुवाद- "( हे दमयन्ती!) अक्षरमाला ( अपने शब्दों = वाणी) से मेरे कान-रूपी कुंओं के भीतर अमृतरस की असीम क्रीडा करो, ( तथा ) ओ मादक आँखों वाली ! ( अपनी ) मुस्कान की शोभा से मेरे नयनों को पायसान्न (खीर ) द्वारा पारणा -व्रतान्त-भोजन कराओ" // 113 // टिप्पणी-अब तक मैने न तुम्हारी मधुर वाणी सुनी, न मुस्कान देखी, अतः वाणी द्वारा मेरे कानों में अमृत घोलो और मेरी आँखों को अपनी मधुर मुस्कान देखने दो। विद्याधर पूर्व श्लोक की तरह यहां भी अतिशयोक्ति कह रहे हैं / 'मदी' 'मदि' में छेक अन्यत्र वृत्त्यनुप्रास है / / 113 // ममासनार्धे भव मण्डनं न न प्रिये ! मदुत्सङ्गविभूषणं भव / अहं भ्रमादालपमङ्ग! मृष्यतां विना ममोरः कतमत्तवासनम् // 114 // अन्वयः . हे प्रिये ! मम आसनाचे मण्डनम् भव; न न, मदुत्सङ्ग-विभूषणं भव; अङ्ग ! अहम् भ्रमात् आलपम्; मृष्यताम्; मम उरः विना कतमत् तव आसनम् ? टीका-हे प्रिये प्रियतमे दमयन्ति ! स्वम् मम मे मासनस्य सिंहासनस्य अर्धे अर्धभागे ( ष० तत्सु० ) मण्डनम् अलंकरणम् भव, न, न, अनुचितमेतत् मया कथितमित्यर्थः मम उत्सङ्गस्य अङ्कस्य विभूषणम् अलंकरणम् भव, उत्सङ्गात् आसनस्य निकृष्टत्वादित्यर्थः; अङ्ग भो! अहम् भ्रमात् उन्मादकारणात् इदम् आलपम् मदुत्सङ्ग-विभूषणं भवेति, मण्यताम् क्षम्यताम् त्वम् उत्सङ्गादधिक