________________ नवमः सर्गः देवताओं से अनुराग करती है वह खीजी हुई है। अगले श्लोक में भी वह उन्हें कोस रही है कि वे उसे दुर्वाचिक-सूचि-संचयों से बींध रहै हैं, अतः 'अकरुण' ही ठीक है // 61 // विभिन्दता दुष्कृतिनों मम श्रुति दिगिन्द्रदुर्वाचिकसूचिसंचयैः / प्रयातजीवामिव मां प्रति स्फुटं कृतं त्वयाप्यन्तकदूततोचितम् / / 2 / / अन्वयः-दुष्कृतिनीम् मम श्रुतिम् दिगि....'चयः विभिन्दता त्वया अपि प्रयातजीवाम् इव माम् प्रति स्कुटम् अन्तकदूततोचितम् (कर्म) कृतम् / टीका-दुष्कृतिनीम् पापिनीम् मम मे अतिम् श्रोत्रम् विशाम् दिशानाम् इन्द्रा: स्वामिनः इन्द्राग्निवरुणयमाः तेषाम् दुर्वाचिकानि गहितसन्देशवचनानि { उमयत्र ष० तत्पु० ) एव सूचयः सेवन्यः ( कर्मधा० ) तासां सञ्चयः समूहै: विभिन्दता विध्यता त्वया अपि नलसमानसुन्दराकृतिना अपि सता प्रयातः गतः जीव: जीवितम् ( कर्मधा० ) यस्याः तथाभूताम् ( ब० वी०) माम् प्रति उद्दिश्य स्फुटं व्यक्तं यथा स्यात्तथा अन्तकस्य यमस्य दूतता दूतत्वम् तस्या उचितम् सदृशम् कर्म कृतम् / परपुरुषस्य तव वाश्रिवणेन कृतमहापापी मरकर्णी त्वम् इदानी देवकुसन्देशश्रावणरूपाभिः सूचिभेदन-यातनाभिः दण्डयन मां तथा मृतप्रायां करोषि यथा नरके यमदूतः पापिपुरुषान् मृतप्रायान् करोतीति भावः // 62 // व्याकरण-दृष्कृतिनी दुः = दुष्टं कृतम् अस्या अस्तीति दुष्कृत + इन् ('मतुबर्थ ) + ङीप् (स्त्रियाम् ) / दुष्कृतम् दुस् + /कृ + क्त (भावे ) / श्रुतिः श्रूयतेऽनयेति श्रु + क्तिन् ( करणे)। दुर्वाचिकम् दुष्टं वाचिकमिति (प्रादि स० ) वाचिकम् वाचा कृतमिति वाच + ठक, ठ को इक / सूचिः सूच्यते (विध्यते ) अनयेति सूच् + इ ( करणे ) / अन्तकः अन्तयतीति/अन्त + ण्वुल। अनुवाद-"तुमने भी मेरे पापी कानों को दिक्पालों के अभद्र सन्देशरूपी डेरों सुइयों से बींधते हुए मरी हुई-जैसी मेरे प्रति प्रत्यक्षतः यम के दूतत्व के योग्य काम किया है" // 62 // टिप्पणी-पतिव्रता के लिए परपुरुष से बातें करना और उन्हें सुनना