________________ नैषधीयचरिते विद्याधर ईशानदेव और जिनराज यहां 'अयोविकारस्वरितत्वम् पाठ देते हैं और अर्थ करते हैं-अयसो लोहस्य विकारस्य स्वरः शब्दः स जातो येषां तान्ययोविकारस्वरितानि तेषां भावोऽयोविकारस्वरितत्वम् = अयोविकारशब्द वाच्यत्वम् अयसाम् कुत इष्यते अपि तु न कुतोऽपि / मल्लिनाथ अयोऽधिकारे स्वरितत्वम् पाठ देते हैं। और अर्थ करते हैं-'अयोऽधिकारे अयःप्रस्तावे स्वरितत्वम् अधिकृतत्वम् तेषु परिगणनेतियावत् / “स्वरितेनाधिकार" इति वैयाकरणपरिभाषाश्रयणादेवं व्यपदेश; / स्वृ शब्दोपतापयोरिति धातोर्देवादिकात् क्तः / विद्याधर यहां अर्थान्तरन्यास कहते हैं लेकिन हमारे विचार से पूर्वार्ध और उत्तरार्थ के दोनों वाक्य विशेष वाक्य होने से बिम्बप्रतिबिम्ब भाव में यह दृष्टान्त ही है। नरों निर में छेक है / हरि परित्यज्य नलाभिलाषका न लज्जसे वा विदृषिजवा कथम् ? / उपेक्षितेक्षोः करभाच्छमीरतादुरुं वदे त्वां करभोरु ! भोरिति // 4 // अन्वयः-हरिम् परित्यज्य नलाभिलाषुका ( तथा ) विदुषिब्रुवा ( त्वम् ) कथम् न लज्जसे ? इति भो करभोरु ! अहम् त्वाम् उपेक्षितेक्षोः शमीरतात करभात् उरुं वदे। टीका-हरिम् इन्द्रम् परित्यज्य अपास्य नलम एतदाख्यं नृपम् अथ च घासविशेषम् अभिलाषका अभिलषन्ती (द्वि० तत्पु०) तथा विदुष्यः ब्रुवा (10 तत्पु० ) आत्मानं विदुषी ब्रुवाणा पण्डितम्यन्येति यावत् त्वम् कथम् कस्मात् न लज्जसे न लज्जां वहसि ? इन्द्रमपहाय नलाख्यतुच्छतृणसदृशनला. ख्यनरमिच्छसि, आत्मनो वैदुष्यञ्च ख्यापयतीति तव कृते महत् लज्जास्थानमिदमित्यर्थः / इति एतस्मादेव कारणात् भो करभो ! करभः कनिष्ठाङ्गलि. मणिबन्धयोर्मध्यवर्ती भागः ( 'करभो मणिबन्धादि-कनिष्ठान्तर उष्ट्रकः' इति विश्वः ) तद्वत् कोमली अनुवृत्तौ च ऊरू सक्थिनी ( उपमान तत्पु०) यस्यातत्सम्बुद्धी हे करभोरु ! (ब० वी० ) अहम् त्वाम् उपेक्षितः परिहृतः इक्षुः इक्षुकाण्डः ( कर्मधा० ) येन तथाभूतात् (ब० वी० ) शमी शिवा कटस्वादः कण्टकाकीर्णो वृक्षविशेष: इत्यर्थ: तस्याम् तत्कण्टकभक्षणे रतात् लग्नात् लालसादिति पावत् ( स० तत्पु० ) करभात् उष्ट्रात् उरुं उत्कृष्टाम् इक्षुमधुररसं विहाय शमीकण्टकभक्षणेरतस्य उष्ट्रस्यापेक्षया मूर्खतायाम् अधिकतरामित्यर्थः