________________ 393 नवमः सर्गः प्रजिघाय स्फुटम्, मरुत्वता एव ( त्वम् ) प्रहितः असि निश्चितम्, ऊर्ध्वमुखेन तेजसा च ( त्वम् ) नियोजितः / टीका-( स्वमनसि नलं सम्बोध्य दमयन्ती कथयति ) जलानाम् अपाम् अधिपः स्वामी वरुण इत्यर्थः मयि मां प्रति त्वाम् अविशत् न्ययोजयत् इति ध्रुवम् निश्चितम् ('ध्रुवो भभेदे क्लीबं तु निश्चिते' इत्यमरः ) अथ च जलानाम् डलयोरभेदात् जडानाम् मूर्खाणाम् अधिपेन अग्रगण्येन महामूर्खेणेत्यर्थः मूर्खराजो वरुणः अतिसुन्दरं त्वाम् अतिसुन्दरी मां प्रति दूतत्वेन प्राहिणोत् इति नीतिशास्त्रविरुद्धत्वेन तेन महामर्खताकार्यं कृतमितिभावः, परेतानाम् प्रेतानाम् मृतांनामिति यावत् राजा (ष० तत्पु० ) स यमः त्वाम् प्रनिघाय मत्पावें प्रेषयत् इति स्फुटम् निश्चितम्; स सत्यं मृतानां राजा महामृतः निश्चेतन इति यावत् यः तादृशं महा-सुन्दरं त्वाम् मयि प्रेषयत् कःखलु चेतनः एतादृशं मूर्खत्वं कुर्यादिति भावः; मरुतो देवा अस्य ( सेवायाम् ) सन्तीति तेन मरुत्वता इन्द्रेण ( 'इन्द्रो मरुत्वान् मघवा' इत्यमरः ) अथच मरुत् वायुरस्यास्तीति महत्वान् वातूल: वातासहः उन्मत्त इति यावत् ( 'मरुतौ पवनामरो' इत्यमरः ) त्वं प्रहितः प्रेषितः असि निश्चितम्, तादृशीं माम् प्रति तादृशस्य एवं प्रेषकम् इन्द्रस्य उन्माद-कार्यमेवास्तीति भावः ऊर्ध्वम् उपरि मुखं यस्य तथाभूतेन (ब० बी० ) तेजसा अग्निना इत्यर्थः अग्निहि ऊर्ध्वमुखो जवलति तेन त्वं नियोजितः मयि दूतत्वेन प्रेरितः निश्चितमिति पूर्वतोऽनुवृत्तम्, अथ च ऊर्ध्वमुखः पिशाचः निर्बुद्धिः पिशाच एव एवं करोतीति भावः / / 23 // व्याकरण-अधिपः अधिकं पातीति अधि + /पा + क / परेतः परा + Vइ + क्त ( कर्तरि ) / प्रजिघाय प्र + /हि + लिट् / अनुवाद--"निश्चय ही जलाधिप ( वरुण, मूर्खराज ) ने मेरे प्रति ( दूत बनने की ) तुम्हें आज्ञा दी है; स्पष्टतः परेतराज (प्रेत-स्वामी, बड़भारी मुर्दे ) उस ( यम) ने तुम्हें भेजा है; निश्चय ही * महत्वान् ( इन्द्र, पागल ) ने ही तुम्हें भेजा है। निश्चय ही ) ऊर्ध्वमुख तेज ( अग्नि, पिशाच ) ने तुम्हें ( दूत ) नियुक्त किया है / / 23 // टिप्पणी-ध्यान रहे कि दमयन्ती का यह स्वगत' भाषण है, जिससे वह नल को मन ही मन संबोधित करके बोल रही है, प्रकट रूप में नहीं। कवि ने