________________ नवमः सर्गः टिप्पणी--दमयन्ती ने नल को प्रश्न दिये हैं अतः वह उत्तमर्ण है और नलाअधमर्ण / अधमर्ण का कर्तव्य है कि वह ऋण चुका दे। प्रकृत में ऋण प्रश्न का उत्तर है जो नल पर चढ़ा हुआ है। मांगने पर ऋण न चुकाना किसी भी कर्जदार के लिए लज्जा की बात होती है। विद्याधर के अनुसार 'अत्र काव्यलिङ्गमलङ्कारः' / 'भवा' 'भव' में छेक, अन्यत्र वृत्त्यनुप्रास है // 3 // अदृश्यमाना क्वचिदीक्षिता क्वचिन्ममानुयोगे भवतः सरस्वती / क्वचित्प्रकाशां क्वचिदस्फुटार्णसं सरस्वती जेतुमनाः सरस्वतीम् // 4 // अन्वयः-मम अनुयोगे क्वचित् अदृश्यमाना, क्वचित् ईक्षिता भवतः वाणी क्वचित् प्रकाशाम्, क्वचित् अस्फुटार्णसम् सरस्वतीम् ( नाम ) सरस्वतीम् जेतुमनाः ( अस्ति ) / टोका--मम अनुयोगे प्रश्ने ( 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः ) क्वचित् कुलस्य नाम्नश्च विषये अदृश्यमाना अदृश्यमानोत्तरा गुप्तेति यावत्, क्वचित कस्मिंश्चिद् विषये अर्थात् 'कुतः आगतः' इति प्रश्ने ईक्षिता ईक्षितोत्तरा 'देवतानां' सकाशात् आगतोऽस्मीति दत्तोत्तरेति यावत् भवतः तव वाणी वाक् क्वचित कश्मिश्चित् स्थाने प्रकाशाम् प्रकटितजलाम् क्वचिच्च अस्फुटम् अप्रकाशम् अप्रकटितमित्यर्थः अर्णः जलम् ( 'अम्भोऽणस्तोयपानीय.' इत्यमरः ) ( कर्मधा०) यस्यां० तथाभूताम् (ब० वी०) सरस्वतीम् सरस्वतीनाम्नीम् सरस्वतीम् नदीम् ('सरस्वती नदीभेदे गो-वाग्देवतयो-गिरि / स्त्रीरत्ने चापगायाञ्च' इति विश्वः ) जेतुम् पराभवितुं मनो यस्याः तथाभूता (ब० वी० ) अस्तीति शेषः / भवता "किं ते कुलं नाम च ?' इति ये प्रश्नस्योत्तरं तु न दत्तम्, किन्तुं 'कुतः आगतोऽसि' इत्यस्यैव प्रश्नस्योत्तरं दत्तमिति भावः // 4 / / व्याकरण-अनुयोगः अनु + /युज + घन ( भावे ) / क्वचित् क्व + चित्, कस्मिन् स्थाने इति किम् + अत् ( सप्तम्यर्थ ) कु आदेश / अदृश्यमाना न + दृश् + शानच् ( कर्मवाच्य ) / ईक्षिता Vईक्ष् + क्त ( कर्मवा० ) / प्रकाशाम् प्रकाशते इति प्र + / काश् + अच् ( कर्तरि ) सरस्वतीम् सरस् = जलम् अस्यामस्तीति सरस् + मतप् + ङीप् / जेतुमना: 'तुम्-काम-मनसोरपि' से तुम् के मकार का लोप / अनुवाद- "मेरे प्रश्नों के सम्बन्ध में कहीं तो ( उत्तर में ) अदृश्य और