________________ नैषधीयचरित नवमः सर्गः इतीयमक्षि<वविभ्रमेङ्गितस्फुटामनिच्छां विवरीतुमुत्सुका। तदुक्तिमात्रश्रवणेच्छयाऽशृणोद्दिगीशसंदेशगिरं न गौरवात् // 1 // अन्वयः-अक्षि स्फुटाम् अनिच्छाम् विवरीतुम् उत्सुका इयम् दिगीशसंदेशगिरम् तदुक्ति""च्छया अशृणोत् , न गौरवात् / टीका--अक्षिणी नयने च ध्रुवौ च तेषां समाहारः ( समाहार द्व० ) अक्षिभ्रुवम् तस्य विभ्रम: विलासः सञ्चालनमित्यर्थः (10 तत्पु० ) एव इङ्गितम् चेष्टा ( कर्मधा० ) तेन स्फुटाम् अभिव्यक्ताम् ( तृ० तत्पु० ) अनिच्छाम् देवानां वरणस्यानभिलाषम् वितरीतुम विशेषेण प्रकटीकर्तुम् वाचा तेषां वरणस्य निषेध कर्तुमिति यावत् उत्सुका उत्कण्ठिता इयम् दमयन्ती दिशाम ईशानाम् (ष. तत्पू० ) इन्द्रादीनाम् सन्देशस्य वाचिकस्य गिरम् वचनम् (10 तत्पु० ) तस्य दूतरूपनलस्य उक्तिः कथनम् (10 तत्पु० ) एव उक्तिमात्रम् तस्य श्रवणस्य श्रुतिगोचरीकरणस्य इच्छया अभिकाङ्क्षया अशृणोत् श्रुतवती न गौरवान् न तु देवान् प्रति आदरभावान् / स्वनेत्र-भ्र चेष्टितैः एव देववरणं स्पष्टता निषेधन्त्यपि दययन्ती यत् देवसन्देशवचनानि श्रुतवती तत्र कारणं तस्याः देवान् प्रति आदरभावो न, किन्तु नलमधुरवचनमात्रश्रवणेच्छवेति भावः // 1 // ___ व्याकरण-अक्षिभ्रवम् यहाँ अजन्तत्व 'अचतुर-विचतुर ( 5 / 4 / 77 ) से निपातित है। विभ्रमः वि + /भ्रम् घन ( भावे ) / इङ्गितम् /इङ्ग + क्त ( भावे ) / उक्ति वच् + क्तिन् ( भावे) / सन्देशः सम् + /दिश् + घम् ( भावे ) / गिरम् / ग + क्विप् (मावे) / गौरवात् गुरोः भाव इति गुरु + अण् / अनुवाद-आँख और भ्र संचालन के संकेत से ही स्पष्ट हुई ( देव-वरणविषयक ) अनिच्छा का खुलकर विवरण देने हेतु उत्सुक हुई इस ( दमयन्ती) ने दिक्पालो के संदेश की बातें ( उनके प्रति ) आदर-भाव के कारण नहीं, (प्रत्युत) उस ( नल ) की वाणीमात्र सुनने की इच्छा से सुनीं // 1 //