________________ नंषधीयचरिते अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहरामणालम् / मधो मधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् / / 69 // अन्वयः तस्य अनङ्गतापप्रशमाय मधी-मधी आमृणालम् मुहुः कदथ्यंमानाः नाकनदी-नलिन्यः शिशिरे अनुरागम् वहन्ताम् वरम् / / टोका-तस्य इन्द्रस्य अनङ्गन कामेन यः तापः कामकृत-ज्वरः इत्यर्थः ( तृ० तत्पु० ) तस्य प्रशमाय शान्त्यर्थम् (10 तत्पु० ) मघो-मघौ प्रतिवसन्तम् मणालानि मर्यादीकृत्येति आमृणालम् मृणालपर्यन्तम् ( अव्ययी० ) मुहुः पौन:पुन्येन कवयंमानाः उत्पीड्यमानाः नाकस्य नवीं स्वर्णदी मन्दाकिनीति यावत् (10 तत्पु० ) तस्याः नलिन्यः पमिन्यः शिशिरे शिशिरतौं अनुरागम् प्रीतिम् वहन्ताम् धारयन्ताम् / वसन्ततौं कामज्वरपीडितस्य इन्द्रस्य तापोपशमनाय स्वर्णद्याः न केवलं कमलानि एव, प्रत्युत मूलभूतानि मृणालान्यपि उच्छिद्य आनीयन्ते / तेन कमलिनीनाम् आत्यन्तिको विनाशः प्रसज्यते तस्मात् ताः शिशिरेऽनुरज्यन्तु इति वरम् यत्र हिमेन कमलविनाशेऽपि सति मूलभूतं मृणालं तु स्थास्यत्येवेति भावः // 69 // व्याकरण-प्रशमः प्र+/शम् + घन ( भावे ) / मधौ-मधौ वीप्सा में द्वित्व / कदय॑मानाः कु-कुत्सिता अर्थाः कदाः, कु को कदादेश, कदर्थाः क्रियन्ते इति कदर्थ + णिच् + शानच् ( कर्मवाच्य नामधा०) / नलिन्या नलिनानि सन्त्यास्विति नलिन + इन् ( मतृबर्थं) + ङीप / शिशिरे यास्काचार्य के अनुसार 'शीयन्तेऽस्मिन् पत्राणीति (पृषोदरादित्वात् साधुः) / अनुरागम् अनु + /रञ्ज + घन् ( भावे ) / अनुवाद-'उस ( इन्द्र ) के काम-ज्वर के प्रशमन हेतु प्रत्येक वसन्त ऋतु में ( फूलों से लेकर ) मृणाल पर्यन्त बार-बार तंग की जा रही सुर-नदी की नलिनियाँ ( वसन्त को छोड़कर) शिशिर से अनुराग करें तो अच्छा रहे" // 69 // टिप्पणी–वसन्त में काम-पीड़ा अधिक होती है, इसलिए इन्द्र का इस ऋतु में काम-ज्वराक्रान्त होना स्वाभाविक है / किन्तु शीतोपचार हेतु मन्दाकिनी को कमलिनियों पर मुसीबतें आ पड़ी हैं। फूल-पत्त निकालें तो कोई बात नहीं, किन्तु उनके मृणाल तक भी उखाड़े जा रहे हैं, जो उनकी जड़ें हुआ करती हैं।