________________ अष्टमः सर्गः 273 अपि आसनभूः विहाय देया, आनन्द-बाष्पैः अपि अम्भः कल्प्यम् , मधुभिः वचोभिः पृच्छा विधेया। टीका-आचारविदेति पूर्वश्लोकतोऽनुवर्तते, शीलेन सद्वृत्तेन शिष्टतापूर्णव्यवहारेणेति यावत् स्वः स्वकीयः आत्मा शरीरम् ( कर्मधा० ) ('आत्मा जीवधृतौ देहा।' इत्यमरः) तृणं घासः विधेयम् कार्यम् अतिथिसेवाएं देहः तृणवन्मत्या नियोजनीय इत्यर्थः अथवा तणं यथा नम्र भवति तथैव आत्मापि नम्रीकर्तव्य इत्यर्थः, निजा स्वीया अपि आसनस्य अवस्थानस्य भः भूमि: स्थानमित्यर्थः (10 तत्पु० ) विहाय त्यक्त्वा देया अतिथये समर्पणीया, विष्टराद्यभावे स्व. स्थानं त्यक्त्वा तत् अतिथये देयमिति भावः, आनन्दस्य अतिथेरागमनात् समुपजातस्य हर्षस्य बाष्पैः अश्रुभिः ( प० तत्पु० ) अथवा आनन्देन बाष्पः (त तत्पु० ) अपि अम्भः पाद्यम् पादप्रक्षालनार्थं जलमित्यर्थः कल्प्यम् सम्पाद्यम्, पादप्रक्षलनार्थ जलाभावे आनन्दाश्रुभिः, अपि तत्प्रयोजनमनुष्ठेयम् तदागमने हर्षों व्यक्तव्य इति यावत्, मधुभिः मधुरैः पंचोभिः वचनैः पृच्छा प्रश्नः कुशल प्रश्न इत्यर्थः विधेया कार्या, मधपकभिावे तत्स्थाने कुशल प्रश्नात्मकमधुरवचनानि प्रयोक्तव्यानीत्यर्थः / गृहागतं प्राघुणिकं प्रति सर्वेऽपि विधिविहिताः शिष्टाचारा: प्रयोगे आनेया इति भावः / / 21 // ___ व्याकरण-विधेयम् वि + </धा + यत् / आसनम् आस्यते ( स्थीयते ) अत्रेति /आस् + ल्युट् ( अधिकरणे ) / भूः भवन्त्यत्र भूतानीति भू + क्विए ( अधिकरणे) / पृच्छा प्रच्छ् + अ + टाप् / अनुवाद-"( आचार-वेत्ता को चाहिए कि ) वह शिष्टाचार द्वारा अपने आप तक को भी तृण बना दे, अपने बैठने का स्थान छोड़कर दे दे, हर्ष के आँसुओं तक से भी पादोदक का काम लेवे, मधुर वचनों से ( कुशल ) प्रश्न पूछे ( पूछकर मधुपर्क का काम लेवे )" / / 21 // हिप्पणी-घर में आये अतिथि के सम्बन्ध में मनु का कहना है-'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता / एतान्यपि खतां गेहे नोच्छिद्यन्ते कदाचन / ( 3 / 101 ) अर्थात् उसका हृदय से आदर-सत्कार करना चाहिए। यदि अन्नफलादि देने को पास में न हों, तो कम से कम तृण, बैठने का स्थान, जल तथा मधुर वचन तो अनिवार्य है। कोलूक भट्ट की व्याख्यानुसार तृण शब्द यहाँ