________________ 142 नैषधीयचरिते अपनाये अर्थात् अलंकार के ब्याज से हीरा मानो इन्द्र का वज्र और रत्नों की नाना-वर्णद्युति मानो इन्द्र-धनुष हो, जिनसे दमयन्ती की दोषों के आक्रमण से रक्षा हो सके। इस तरह यहाँ अपहनुत्युत्थापित उत्प्रेक्षा है। शब्दालंकार वृत्त्यनुप्रास है। अस्याः सपक्षेकविधोः कचौधः स्थाने सुखस्योपरि वासमाप / पक्षस्थतावद्वहुचन्द्रकोऽपि कलापिनां येन जितः कलापः // 20 // अन्वयः-अस्याः सपक्षकविधोः मुखस्य उपरि कचौधः वासम् आप-(इति) स्थाने; येन पक्षकः अपि कलापिनां कलापः जितः / टोका-अस्याः दमयन्त्याः सपक्षः समानः पक्षो यस्य सः ( ब० वी० ) सादृश्यकारणात् मित्रम् सहायक इति यावत् एक: केवल: विधुः चन्द्रः (कर्मधा.) यस्य तथाभूतस्य (ब० वी०) मुखस्य आननस्य उपरि शिरसीत्यर्थः कचानाम् केशानाम् ओघः . समूहः केशकलाप इत्यर्थः वासम् स्थितिम् आप लब्धवान् इति स्थाने युक्तमेव ( 'युक्ते द्वसाम्प्रतं स्थाने' इत्यमरः) केशकलापः शिरसि तिष्ठतीत्युचितमेव, येन कचौघेन पक्षेषु गरुत्सु तिष्ठन्तीति तथोक्ताः ( उपपद तत्पु० ) तावन्तः बहवः चन्द्रकाः मेचका अथ च चन्द्रा एव चन्द्रकाः ( कर्मधा० ) यस्य तथाभूतः (ब० वी०) अपि कलापिनाम् मयूराणां कलापो बहः पिच्छ इति यावत् ( 'कलापो भूषणे बहें तूणीरे संहतावपि' इत्यमरः ) जितः पराजितः अनेकचन्द्रकसहायकोऽपि मयूर-कलापो येन पराजितः तादृशः एकचन्द्रसहायकः कलापो यदि शिरसा धार्यते तहि सर्वथा समुचितमेव यतः उत्तमाः शिरसा धार्यन्ते एवेति भावः // 20 // व्याकरण-ओधः इसके लिए पीछे श्लोक 17 देखिए / वास: /बस् + ( भावे ) / पक्षस्थ पक्ष + /स्था + क ( कर्तरि ) चन्द्रक: चःद्र + क ( स्वार्थे ) कलापिनाम् कलापः ( बर्हः ) एषामस्तीति कलाप + इन् ( मतुबर्थ ) / अनुवाद-एकमात्र चन्द्र को सपक्ष-सहायक रखने वाला इस ( दमयन्ती) का केश-कलाप-जिसने पक्ष ( पंखों) में बहुत से चन्द्रकों ( चन्दाअं, चन्द्रमाओं) को रखे हुए भी मयूर के कलाप ( पुच्छ ) को जीत लिया-मुख के ऊपर ( सिर पर ) स्थान प्राप्त कर गया है, ठीक ही है / / 20 // . टिप्पणी-कवि नल को माध्यम बनाकर यहां से लेकर सर्गान्त तक दम