________________ નૈષઘીયારતે सप्तमः सर्गः अथ प्रियासादनशीलनादौ मनोरथः पल्लवितश्चिरं यः। विलोकनेनैव स राजपुत्र्याः पत्या भुवः पूर्णवदभ्यमानि // 1 // अन्वयः-अथ भुवः पत्या प्रिया''दो यः मनोरथः चिरम् पल्लवितः ( आसीत् ) स राजपुत्र्या: विलोकनेन एव पूर्णवत् अभ्यमानि / टीका-अथ इन्द्रदूत्या अपगमनानन्तरम् भुवः पृथिव्याः पत्या भर्ना नलेनेत्यर्थः प्रियायाः प्रेयस्या दमयन्त्याः आसादनम् प्राप्तिः (10 तत्षु० ) च शीलनादि साहचर्यानुभवश्च ( द्वन्द्व ) आदी यस्य तथाभूते आलिङ्गन-संभोगविषये (ब० वी० ) यः मनोरथः अभिलाषः चिरम् चिरकालात् पल्लवितः सातपल्लव: पूर्व हृदये कल्पित आसोदित्यर्थः स मनोरथः राज्ञः भीमनृपस्य पुत्र्याः दुहितुः विलोकनेन एव दर्शनमात्रेण एव पूर्णवत् पूर्ण इव अभ्यमानि मेने। दमयन्ती प्राप्य तया सहाहं विविधानन्दोपभोगं करिष्यामीति नलेन या स्वप्नसृष्टिर्मनसि रचितपूर्वाऽऽसीत्, सेदानीं तस्याः दर्शनमात्रेण सफलीभूतां पूर्णा चामन्यतेति भावः। व्याकरण-पत्या बिना समास के घिसंज्ञा न होने से यहाँ पतिना नहीं बनने पाया / प्रिया-प्रीणातीति / प्री + ल + टाप् / आसावनम् आ + /सद् + णिच् + ल्युट ( भावे ) / शीलनम् शील् + ल्युट ध्यान रहे कि यहाँ द्वन्द्व आसादनश्च शीलनादि च यों हमें करना पड़ा। अन्यथा अल्पाच होने के कारण 'शीलन' को पूर्वनिपात प्राप्त है / पल्लविता पल्लवोऽस्य सञ्जातः इति पल्लव + इतच अथवा पल्लववत् ( सुखादयो वृत्तिविषये तद्वति वर्तन्ते ) करोतीति (नामधातु ) पल्लव + णिच् + क्तः ( कर्मणि ), अभ्यमानि अभि + मन् + लुङ् ( कर्मणि)। अनुवाद-( इन्द्रदूती के चले जाने के ) अनन्तर भूपति ( नल ) ने प्रिया की प्राप्ति, उसके साहचर्य आदि के सम्बन्ध में जो मनोरथ-स्वप्न-चिरकाल से