SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नषधीयचरिते टिप्पणी-विद्याधर उपमा कहते हैं, क्योंकि मुख की पंकज से तुलना की ना रही है / ओंठ कमल की पंखुड़ियों को जीत रहे हैं हमारे विचार से यहाँ भी उपमा है, क्योंकि दण्डी ने जीतने आदि लाक्षणिक प्रयोगों का. सादृश्य में ही पर्यवसान मान रखा है / शब्दालं पर वृत्त्यनुप्रास है। 'अनादिधाविस्वपरम्पराया हेतुस्रजः स्रोतसि वेश्वरे वा। आयत्तधीरेष जनस्तदार्या: ! किमादृशः पर्यनुयोगयाग्यः // 102 // अन्वयः-अनादि...रायाः हेतु-स्रजः स्रोतसि वा ईश्वरे आयत्तधीः एष जनः ( अस्ति ), तत् हे आर्याः ! ईदृशः ( जनः ) पर्यनुयोग-योग्यः किम् ? टीका-न आदिः आरम्भः यस्मिन् कर्मणि यथा स्यात्तथा ( ब० वी० ) अनादिकालादित्यर्थः धाविती भ्रमन्ती या स्व-परम्परा ( कर्मधा० ) स्वस्य जीवात्मनः परम्परा पङ्क्तिः (10 तत्पु० ) तस्याः हेतूनाम् कारणानाम् अदृष्टरूपशुभाशुभकर्मणाम् सजः मालायाः शृङ्खलाया इत्यर्थः (10 तत्पु० ) स्रोतसि प्रवाहे वा अथवा ईश्वरे परमात्मनि आयत्ता अधोना धी: बुद्धिः ( कर्मधा० )यस्य तथाभूतः (ब० वी०) एष मल्लक्षणः जनः व्यक्तिः अस्तीति शेषः, अनादिकालात् पूर्वजन्म-परम्परासु कृतानाम् शुभाशुभकर्मणाम् फलभूतेषु अदृष्टेषु ईश्वरे वा सर्वे जीवात्मनः अधीनभूताः सन्ति, तस्मात् न ते स्वेच्छया स्वबुद्धया वा किमपि कतुं स्वतन्त्रा इति भावः / तत् तस्मात् भो आर्याः ! प्राज्ञधियः सख्यः ! ईदृशः पराधीनः मत्सदृशो जनः पर्यनुयोगः परितः प्रश्नः किमर्थं नले अनुरज्यसे ? न पुनरिन्द्र इत्यादि-रूपः तस्य योग्यः अहः (10 तत्पु० ) किम् ? अपितु न योग्य इतिकाकुः पूर्वादृष्टस्य परमात्मनो वा प्रेरणयैव नलेऽहमनुरक्तास्मि न पुनरिन्द्र', तस्मात् मयि भवतीनां 'कथं नेन्द्र'ऽनुरज्यसे ?' इति प्रश्नस्य नास्त्येवावश्यकतेति भावः // 102 // व्याकरण-०धाविनी धावतीति/धाव् + णिन् (ताच्छील्ये ) / आयत्त आ + V यत् + क्तः ( कर्तरि ) / ईश्वरः ईष्टे इति/ ईश् + वरच् / पर्यनुयोगः परि + अनु + युज् ( भावे ) कुत्वम् / योग्यः योगमहतीति योग + यत् अथवा युज्यते इति/ युज् + ण्यत् / अनुवाद-यह व्यक्ति बुद्धि में अनादि चली आरही आत्मा ( शरीर ) की परम्परा के कारणों-अदृष्टरूप शुभाशुभ कर्मों की शृङ्खला के प्रवाह के अथवा 1. अनादिधाविश्व० /
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy