SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते टीका-अथ दमयन्ती-वनदर्शनान्तरं कनकस्य सुवर्षस्य पतत्त्रे पक्षौ ( 10 तत्पु०) यस्य तथाभूतः (10 वी० ) स्वर्णपक्षी हंसः इत्यर्थः ( 'गरुत्-पक्ष-च्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः ) तत्र उपवने सदृशी आत्मसमाना भाः कान्तिः ( कर्मधा० ) यासा तथाभूतानाम् (व० वी० ) सखीनाम् मालीना सदसि मण्डल्यां विस्फुरन्ती विशेषेण दीप्यमानाम् उडूना नक्षत्राणां परिषदि मण्डल्या (10 तत्पु०) मध्ये तिष्ठतीति तथोक्तः ( उपपद तत्पु० ) यः शीतांशुः (कर्मधा० ) शीता हिमा अंशवः 'किरणा यस्य तथाभूतः ( ब० वी०) चन्द्रमा इत्यर्थः तस्य या लेखा कला (10 तत्पु० ) तस्या अनुकरणे विडम्बने ( 10 तत्पु०) पटुलक्ष्मीः ( स० तत्पु०) पट्वी समर्था लक्ष्मीः शोमा ( कर्मधा० ) यस्यास्तथाभूताम् ( ब० वी० ) तां राजपुत्री दमयन्तीम् अक्षणोः नेत्रयोः लक्षं लक्ष्यमक्षिलझम् (प. तत्पु० ) अनक्षिलक्षम् अक्षिलक्षं-सम्पद्यमानं चकारेति अक्षलक्षोचकार ददशेत्यर्थः। स्वसदृशसखीनां मध्ये दमयन्ती तथा दृश्यते स्म यथा नक्षत्राणां मध्ये चन्द्रकलेति भावः // 107 // व्याकरण-पतत्रम् पत्यते उड्डीयतेऽनेनेति यत् + अनन् ( करणे ) / परिषद् परितः सोदन्यस्यामिति परि+इस+क्विप ( अधिकरणे)। अपिलक्षीचकार अक्षि+ लक्ष+च्चि दीर्घ + लिट् / अनुवाद-तदनन्तर स्वर्णपक्षी ( हंस ) (अपने हो) समान कान्ति वाली सखियों की मंडली में चमकती हुई उस राजकुमारी ( दमयन्ती ) को देख बैठा, जो शोमा में तारों की मंडली के मध्य स्थित (चमकती हुई ) चन्द्रकला से अच्छी तरह टक्कर ले रही थो / / 107 / / टिप्पखो-यहाँ ( अनुकरण-पटु-लक्ष्मीम्' और 'सदृशभासाम्' इन दो उपमाओं की संसृष्टि है / शब्दालंकारों में 'तत्र' 'तत्र' 'सद' 'सदृ' में छेक अन्यत्र वृत्त्यनुपास है। भ्रमणरयविकीर्णस्वर्णभासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः / मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोच्चैमण्डलस्तेन तेने // 108 // अन्वयः-अधः क्वचन पतनयोग्यम् देशम् अन्विष्यता, (अत एव ) ममण-रय-विकीर्ण-स्वर्णमासा तेन खगेन प्रदसीयम् मुखविधुम् सेवितुम् लम्बमानः शशि-परिधिः इव उच्चै मण्डल: तेने // 108 // टीका-अधः नीचः क्वचन कुत्रापि भूमौ पतनस्य अवतरणस्य योग्यम् उचितम् ( 10 तत्पु०) देशं स्थानम् अन्विष्यता मृगयमाणेन, अतएव भ्रमणस्य परिभ्रमणस्य रयेण वेगेन (10 तत्पु०) विकीर्णा प्रसारिता ( तृ. तत्पु०) स्वर्णमाः ( कर्मधा० ) स्वर्णस्य सुवर्णस्य माः कान्ति (प. तत्पु० ) येन तथाभूतेन (ब० बी० ) तेन खगेन पक्षिणा हंसेनेत्यर्थः अमुष्या दमयन्त्या अयम् अदसोयः तं मुखम् वदनम् एव इन्दुम् चन्द्रं ( कर्मधा० ) सेवितुं परिचरितुं लम्बमान अवलम्बमानः शशिनः चन्द्रस्य परिधिः परिवेशः ( प० तत्पु०) वोच्चैः ऊर्ध्वम् प्राकाशे मण्डलः वलयः 'विम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः तेने चक्रे / अवतरणाथ मण्डलाकारेष भ्रमम् हंसः दमयन्तीमुखशशिनम् परितः परिवेष इव प्रतीयते स्मेति भावः // 108 //
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy