________________ द्वितीयसर्गः टीका-धर्मस्य धर्मसम्बन्धिनो ये आगमाः शास्त्राणि (10 तत्पु० ) तस्य यत् मर्म रहस्यम् (10 तत्पु० ) तस्य पारं (प० तत्पु० ) गच्छन्तीति तथोक्तः ( उपपद-तत्पु. ) अपि नृपैः राजमिः मन्वादिमिः मृगया आखेटः न विगोयते विरुद्धं गीयते निन्द्यते इत्यर्थः। तथापि हे स्मरवत् कामदेववत् सुन्दर रमणीय ! ( उपमान तत्पु० ) स्वम् नलः मां हंसम् यत् अत्यजः त्यक्तवान् , स मम त्यागः तव ते दयायाः करुषाया उदयः प्रादुर्भावः (10 तत्पु. ) तेन उज्ज्वल: दीप्यमानः (त० तत्पु०) धर्मः सुकृतम् , अस्तीति शेषः। आखेटस्य धर्मशास्त्रि'मः अनिन्दितत्वेऽपि मयि दयां कृत्वा तव मन्मोचनं महान् धर्मः, अत एव त्वं न केवलम् आकृत्या सुन्दरः, अपि तु धर्मतोऽपि सुन्दर इति भावः // 9 // व्याकरण-मृगया मृगान् यान्ति अनयेति मृग+या+कः ( भावे)। पारग: पार+V गम् +हः / विगीयते वि+/गै+लट् (कर्मवाच्ये ) / उज्ज्वल: उत् (अ) ज्वलतीति उत् +/ज्वल् + अच् ( कर्तरि ) / अनुवाद-धर्म शास्त्रों का तत्व जानने वाले ( मनु आदि ) राजाओं द्वारा भी आखेट की निन्दा नहीं की जाती है; ( तथापि ) हे कामदेव-जैसे सुन्दर ! तुमने मुझे जो छोड़ दिया है, वह ( मेरे प्रति ) दया-प्रादुर्भाव से उज्ज्वल बना तुम्हारा धर्म ( का काम ) है // 6 // टिप्पणी-'स्मर-सुन्दर' में उपमा है। शब्दालंकारों में 'दयो' 'दयो' में यमक 'गया' 'गोय' 'धर्मा' 'धर्म' में छेकानुपास और अन्यत्र वृत्त्यनुप्रास है। अबलस्वकुलाशिनो झषान्निजनीदद्रुमपीडिनः खगान् / अनवद्य तृणार्दिनो मृगान्मृगयाघाय न भूभुजां नताम् // 10 // अन्वयः-अबलस्व-कुलाशिनः झषान् , निज-नीड-द्रम-पोडिनः खगान् , अनवधतृणादिनः मृगान् (च ) ध्नताम् भूभृताम् मृगया अघाय न (भवति ) / टीका-न बलं शक्तिः यस्मिन् तत् (ब० वी० ) अबल च तत् स्वं कुलं वंशः स्वजातीयानित्यर्थः (कर्मधा० ) अश्नन्ति खादन्तीत्येवंशोलान् (उपपद-तत्पु०) झषान् मत्स्यान् धनताम् मारयताम् मत्स्या हि लघुमत्स्यान् हन्तीति तेषां स्वभावः / अयमेव 'मत्स्यन्यायः' इत्युच्यते / निजाः स्वीयाः (कर्मधा० ) ये नीडाना कुलायाना ( ब० तत्पु० ) द्रुमाः स्वनिवासस्थानभूता वृक्षा इत्यर्थः तान् पीडयितुं शीलमेषामिति तथोक्तान् ( उपपद-तत्पु० ) खगान् पक्षिणो ध्नताम् , पक्षियो हि स्वाश्रयवृक्षान् तत्फल-पुष्प-पत्रादि-त्रोटनेनापकुर्वन्ति; अनवयं निर्दोष निरपराधमिति यावत् यत् तृणम् ( कर्मधा० ) तत् अदितुं पीडयितु शीलमेषामिति तथोक्तान् (उपपद-तत्पु० ) मृगान् ध्नताम् , तृणवृक्षलतादयो हि प्राणिनो भवन्ति / यथोक्तं मनुना-'अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः' इति, मृगास्तेषां वध कुर्वन्तीति तेऽपि वध्याः, भूभृतां राशा मृगया आखेटोऽपाय पापाय न भवतीति शेषः। पर-पीडकानां दुष्टानां च दमनं राशो धर्म एवेति मावः // 10 // ज्याकरण-शिनः' आदि में सर्वत्र ताच्छील्यार्थ में पित् / अनवध न अवद्यम् , 'प्रवच गर्हार्थ में न+/वद्+यत् ( 'अवध-पण्य-वर्या०' 3 / 1 / 101 से निपातित ) अवधं गद्यम् / धनताम् Vहन+शत ( 10 बहु.)। भूभृताम् भू+/भृ + क्विप ( कर्तरि ) 50 बहु० /