________________ प्रथमः सर्गः 43 भन्वयः-भृशम् स्मरोपतप्तः अपि सः प्रभुः विदर्भराजम् तनयाम् न अयाचत / मानिनः असून् शर्म च वरम् त्यजन्ति, एकम् अयाचित-व्रतम् न त्यनन्ति / रोका-भृशम् अत्यधिकं यथा स्यात्तथा स्मरेण कन्दपेंण उपतप्तः तापं प्रापितः पीडित इति यावत् (तृ तत्पु० ) अपि स प्रभुः समर्थः नलः विदर्भाणां राजा इति विदर्भराजः तम् [ष० तत्पु.] मोममित्यर्थः तनयाम पुत्रीम् दमयन्तीम् न अयाचत याचितवान् / मानिनः आत्माभिमानिनः उच्च-मनस्का इति यावत् असून् प्राणान् शर्म सुखं च परम् मनाक पियं यथा स्यात् तथा [वरः श्रेष्ठः त्रिषु क्लवं मनाक-प्रिये" इत्यमरः] त्यजन्ति मुन्नन्ति एकम् अदितीयम् मुख्यमितियावत् अयाचितम् न याचितम् याचना एवं व्रतम् नियमम् तु न त्यजन्ति अर्थात् आत्माभिमानिनः पुरुषाः याचना न कुर्वन्ति, तेषां प्राणाः यदि गच्छन्ति, गच्छन्तु नाम // 50 // व्याकरण-विदर्भ राजम् राजन् शब्द समास में अकारान्त होकर राम की तरह चलता है ( राजाहःसखिभ्यष्टच' पा० 5 / 4 / 81 ) / विदर्भराजम्, तनयाम् ये दो कर्म इसलिए हुए कि वाच् धातु द्विकर्मक होता है / अयाचितम् न याचितम्/ याच्+क्त मावे। हिन्दी-काम द्वारा अत्यधिक पीड़ित होते हुए भी उस राजा नल ने विदर्भराज से ( उसकी) कन्या के लिए याचना नहीं की। आत्माभिमानी ( लोग ) भले ही प्राप्य और सुख को छोड़ दें, किन्तु न माँगना रूप एक व्रत को नहीं छोड़ते / / 50 // टिप्पणी-इस श्लोक में राजा नल द्वारा दमयन्ती को न मांगने की बात का समर्थन उत्तरार्धगत सामान्य बात से किया गया है, इसलिए अर्थान्तरन्यास अलंकार है। असून् शम च-यहाँ शम शब्द को असून् से पूर्व आना चाहिये था, क्योंकि लोग पहले सुख को और तब प्राणों को छोड़ते हैं। पहले यदि प्राण ही छोड़ दिये तो, बाद में सुख छोड़ने का प्रश्न हो नहीं उठता, इसलिए यह अक्रमता दोष है / / 50 / / मृषाविषादामिनयादयं क्वचिज्जुगोप निःश्वासतति वियोगजाम् / विलेपनस्याधिकचन्द्रमागताविभावनाचापजलाप पाण्डुताम् // 51 // अन्वय-अयम् क्वचित् मृषा-विषादाभिनयात् वियोगजाम् निःश्वासततिम् जुगोप विलेपनस्य अधिक-चन्द्र-मागता-विभावनात् च पाण्डुताम् अपललाप / टीका-अयं नलः क्वचित् कस्मिंश्चिद् वस्तुनि मृषा मिथ्या यः विषादः खेदः तस्य अभिनयात प्रदर्शनात् ( 10 तत्पु०) वियोगात् जायते इति वियोगजा ताम् [ उपपद तत्पु.] निःश्वासानाम् दीर्घश्वासानामित्यर्थः त तिम् परम्पराम् (10 तत्पु० ) जुगोप तिरोदधे भयंभावः-मोहात् कारणात् नलेन कल्पित-दमयन्तो दृष्टा दीर्घ-निःश्वासांश्च स मुमोच किन्तु लोकेभ्यो नितमसो गतं किमपि वस्त्वधिकृत्य प्रकाशं मृषैव एवमाह-'तद् वस्तु गतम् / मम महान् खेदो जायत' इति / विलेपनस्य चन्दनलेपस्य अधिकः चन्द्रस्य कर्पूरस्य [ 'घनसारश्चन्द्रसंशः सिताभ्रो हिमबालुका' इत्यमरः ] मागः अंशः [ 10 तत्पु.] यस्मिन् तथाभूतस्य (40 बी० ) भावः तत्ता तस्या विभावनात् ज्ञापनात् (10 तत्पु० ) पाण्डताम् ईषत् पीतवर्णत्वम् अपललाप निहतवान् अर्थात् वियोग-जनित-श्वेत