________________ 1574 नैषधमहाकाव्यम् / यशरूपी मृगके व्याध ( शिवजी ) के मस्तकमें रहनेवाली गङ्गाजीकी तीरभूमिके वनसम्बन्धी तोंमें रहनेवाला बगुला है। [ अथवा-कहनेसे अवर्णनीय कान्तिवाले, तथा ( विष्णु भगवान्की नाभिस्थ ) कमलसे उत्पन्न ब्रह्माने नेत्रद्वयरूप कमलमयी जिस (पितृ कमल की कान्तिका उससे भी उत्तम होना स्वभाव-सिद्ध है और वह कमल तुम्हारा मुख ही है, अतः तुम्हारे मुखकी कान्तिकी अपेक्षा चन्द्रमा कुछ नहीं हैं / हां, यदि वह है तो उक्तरूप बक है, जो तुम्हारे मुखकी शोमा पाने के लिए गङ्गानीके तीरके वनमें निवास करता ( हुआ मानो तपस्या करता) है / लोकमें भी कोई व्यक्ति इष्ट-सिद्धयर्थ शिवजीकी प्रतिमाके समक्ष गङ्गाके तीरस्थ वनमें निवास करता हुआ तपस्या करता है / बगुलेका जलाशयतीरस्थ बेतोंमें रहना स्वमाव होता है ] // 138 // पौराणिक कथा-दक्षप्रजापतिके यशको मृगरूप धारणकर भागनेपर शिवजीने व्याधरूप होकर उसका अनुसरण किया था। जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्या___मश्यामत्वैकमत्यस्थितसकलकलानिर्मितेनिमलस्य / इन्दोरिन्दीवराम बलविजयिगजग्रामणीगण्डपिण्ड ___ द्वन्द्वापादानदानद्रवलवलगनादङ्कमङ्के विशङ्के / / 139 / / जातमिति / अहमिन्दोरके बलविजयिन इन्द्रस्य गजग्रामणीहस्तिषु मध्ये प्रधानं प्राच्यामेव वर्तमानो य ऐरावतस्तस्य गण्डयोः कपोलयोः पिण्डयोः शिरःस्यि. कुम्भस्थलयोश्च ये द्वन्द्वे गण्ढद्वन्द्वं पिण्डद्वन्द्वं च त एवापादानं निगमनस्थानं येषां ते च ते दान द्रवलवा मदजललेशास्तेषां लग्नात्संपर्कात् काकतालीयमाकस्मिकं देवा. सिद्धमिन्दीवराभं नीलोत्पलतुल्यं जातमकं कलकं विशङ्के मन्ये / किंभूतस्येन्दोः ? अस्यामङ्गुलीनिर्दिष्टायां पुरोदृश्यायां शतक्रतोरियं शातक्रतवी तस्यां हरिति दिशि विहरत उद्च्छतः / तथा-अश्यामत्वे विषये ऐकमत्यं सर्वसंवादस्तेन तत्र वा स्थिताभिर्वर्तमानाभिः सकलाभिः पञ्चदशभिरपि कलाभिः कृत्वा निमितिर्यस्य / अश्यामत्वैकमत्येन स्थिता सकलकलानिर्मितिर्यस्य तादृशस्य / अत एव-निर्मलस्य प्रत्येक कलानां धावल्यस्य दृष्टत्वाद्धवलसकलकलानिर्मितत्वात्कारणधावल्याद्धवलस्य, अश्यामस्वैकमत्ये स्थिता याः सकलाः कलास्ताभिर्या निर्मितिस्तस्या वा हेतोर्धव. लस्य / पूर्व कारणधावल्यात्सकलोऽप्ययं धवल एवाभूत् , पश्चात्त पूर्वदिग्भ्रमणवशा. त्तत्रैव भ्रमत ऐरावतस्य कपोलकुम्भस्थलगलन्मदजलं दैववशाल्लरनं तेनायं मध्ये कालः प्रतिभातीत्यर्थः / तालतरुतले यदैव काकस्योपवेशनम्, तदैव देवारकाकस्यो. परि तालफलपात इति काकतालमिव, 'समासाच तद्विषयात्' इति छः। निमितेः, पक्षे हेतौ पञ्चमी // 139 //