________________ द्वाविंशः सर्गः। 1566 अथ च-एवमेव यथानेन प्रकारेण द्विजस्वं, तथैवात्रिमुनिजो भवञ्चयं द्विजः पर्यवस्यति किम् ? द्वाभ्यां जातवाद्यथा द्विज उच्यते, तथा द्विजादत्रिमुनेर्जातवादपि द्विज उच्यते किम् ? द्विजोत्पन्नो हि द्विज एव भवतीत्यर्थः / अथ च-द्वाभ्यां जातत्वाद् द्विजो भवन्नेव न त्रिभ्यो जायत इत्यत्रिज इत्येवं तात्पर्यवृत्त्या कथ्यते किम् ? यो हि द्वाभ्यां जायते स विजो न भवति, एवमेवायमत्रिजः कथ्यते किमित्यर्थः। अन्योऽपि द्विजस्त्रिजो न भवत्येव // 133 // जिस कारण यह चन्द्रमा समुद्रसे तथा अत्रिमुनिके नेत्रमध्यसे उत्पन्न हुआ है, उसी कारण यह 'द्विज' ( दोसे उत्पन्न ) है क्या ? और यदि इस प्रकार ( समुद्र तथा अत्रिमुनिके नेत्रमध्यसे उत्पन्न ) है, तो 'अत्रि' मुनिके नेत्रमध्यसे उत्पन्न होता हुआ यह चन्द्रमा 'दिन' (दोसे उत्पन्न) सिद्ध होता है क्या ? (दो अर्थात समुद्र तथा 'अत्रि' मुनिके नेत्रमध्यसे उत्पन्न होनेसे जिस प्रकार यह चन्द्र 'द्विज' कहलाता है, उसी प्रकार 'अत्रि' मुनिके मंत्रमध्यसे उत्पन्न होकर भी 'द्विज' कहलाता है क्या ?) अर्थात् एक अत्रिमुनिके नेत्रमध्यभागसे उत्पन्न होनेपर 'दोसे उत्पन्न नहीं होने के कारण यह चन्द्रमा 'द्विज' नहीं कहला सकता। अथ च-दोसे उत्पन्न होनेके कारण जिस प्रकार 'द्विज' कहलाता है, उसी प्रकार द्विज (ब्राह्मण ) 'अत्रि' मुनिके नेत्रमध्यसे उत्पन्न होकर 'द्विज' कहलाता है क्या ? अर्थात् 'हाँ' द्विजपुत्रको द्विज कहलाना उचित ही है / अथच-दोसे उत्पन्न होने के कारण 'दिज' होता हुआ अत्रिज (अ+त्रिज = तीनसे अनुत्पन्न अर्थात् दोसे उत्पन्न ) होनेसे 'दिन' कहलाता है क्या ? // 133 // ताराविहारभुवि चन्द्रमयीं चकार यन्मण्डली हिमभुवं मृगनाभिवासम् / तेनैव तन्वि ! सुकृतेन मते जिनस्य स्वर्लोकलोकतिलकत्वमवाप धाता।।१३४॥ तारेति / हे तन्वि कृशाङ्गि! धाता ताराणां नक्षत्राणां विहारभुवि गगने चन्द्रमयीं मण्डली बिम्बं जिनस्यपुराणपुरुषस्य श्रीविष्णोर्मतेऽनुमती सत्यां तदादिष्टः सन् यच्चकार निर्ममे तेनैव सुकृतेन शोभनेन लोकोत्तरव्यापारेण कृत्वा स्वर्लोकः स्वर्गभुवनं तत्संबन्धिनां लोकानां सुराणां मध्ये तिलकत्वं श्रेष्ठयमवाप / किंभूतां मण्ड. लीम् ? हिमस्य तुषारस्य भुवं स्थानभूतामतिशीतलाम् / तथा-मृगस्य नाभौमध्ये वासो यस्यास्तां, यस्या मध्ये मृगोऽस्तीति यावत् , ताहशीम् / अन्येषां सुराणामे. ताहव्यापारकरणे सामर्थ्याभावाद् ब्रह्मैव श्रेष्ठोऽभूदित्यर्थः / अथ च-ताराया बुद्धदेव्या विहारस्थाने पूजास्थाने हिमभुवं शीतलां, शुभ्रस्वादिमाचलरूपां वा, तथामृगनाभेः कस्तूर्या वासः परिमलोऽवस्थानं वा यस्यां तो कस्तूरीमिश्रितां चन्द्रमयीं कर्पूरमयीं मण्डली राशिं यवकार तेनैव पुण्येन जिनस्य मते बौद्धदर्शने ब्रह्मा सुर• श्रेष्ठस्वमधत्त / बौद्धा हि बुद्धदेवप्रासादे यस्तत्पूजार्थ कर्पूरकस्तूरीराशिं करोति स सर्वलोकमध्ये श्रेष्ठो भवतीति स्वदर्शने प्रत्यपादयन् ; ब्रह्मा चैवमकृत तस्मा