SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ 1464 नैषधमहाकाव्यम् / सूर्यस्य रागे लोहितिमनि सति अस्तमयानन्तरं सूर्यस्य रागमात्रेऽवशिष्टे सति संध्याकान्ति किंचित्पीतरक्तवर्णत्वाकुनीं 'नेपानी कुनटी गोला' इत्याद्यभिधानात् मनःशिलारूपाम् , तथा,-ईशामपि स्वकालस्वामिनी च, अथ च,-पितृप्रसूरूप. स्वाद् ब्रह्मतनुत्वाद् देवतारूपाम् , अथ च,-समृद्धिमती सन्ध्याय सम्यग्विचिन्त्य सांप्रतमिदानी तन्वा किंचिदुद्गततया संध्यारागतिरोहितकान्तितया वा कृशया किंचि. दृश्यया / तथा,-वियतापि गगनरूपया लक्षणया यावद्गगगनं विस्तीर्णया, यद्वाआ सामस्स्येन व्याप्तं वियद्यया गगनव्यापिन्या च, तारश्रेण्या नक्षत्रपरम्परारूपया सजा पुष्पादिमालया हारं तनोति विश्चयति किं नु। यद्वा,-ताराणां शुद्धमोक्ति। कानां श्रेणियंत्र तादृश्या ग्रथितमौक्तिकया मालया हारविरचनं युक्तमिति संध्याकालः संध्यामेवंविधां संचिन्त्य नक्षत्रपरम्परामेव हारं विरचयति किमित्यर्थः। संध्यारागः कियानवशिष्टोऽस्ति, मुक्तातुल्यानि नक्षत्राणि च किंचिदृश्यानि जातानीति भावः / तन्वा तारश्रेणिस्रजोपलक्षितेन तद्यक्तेन वियता गगने नवहारं तनोतीति वा / संध्या. मेवंविधां विज्ञाय तूष्णीभूत इति न किंवौचित्याद्विशिष्टया तारश्रेणिस्रजा हारमपि विरचयतीत्यर्थ इति वा अपि'शब्दार्थः / अथ च,-स प्रसिद्धो महानटस्ताण्डवनृत्तकर्ता शिवो भानोः सूर्यस्य रागे सति, अस्तमितार्धे सूर्य सतीति यावत् / तत्र संध्यासमये मनःशिलातुल्यवर्णामचिरस्थास्नुत्वात्कुत्सितनर्तकीरूपां वा ईशां देवीं संध्यां सम्यः अध्यास्वा सायंसंध्यावन्दनं कृत्वाऽष्टासु मूर्तिषु मध्ये तारापरम्परैव माला यस्यां तया गगनरूपयापि अमूर्तयापि मूर्त्या कृत्वा इदानी संध्यावन्दनानन्तरमङ्गहारं मुखकर पार्वाद्यङ्गानां समतालमानं विक्षेपं करोति किंन्विति वितर्कः। अमूर्तस्याङ्गहारकरणं चित्रमिति विरोधार्थः 'अपि'शब्दः / न केवलं चन्द्रसर्पभोगादिभूषितयैव तन्वाङ्गहारं करोति, किन्तु वियतापि तन्वेति समुच्चयार्थो वा। ईश्वरो हि सायंसमये नृत्यति / भानुरागे मनःशिलातुल्यवर्णां संध्यामपीशां स्वसहचरी पार्वती विचिन्त्य विशिष्टया वियद्पयापि तन्वाङ्गहारं तनोति / पार्वतीसमीपेऽपीश्वरो नृत्यति // अथ च,महानतिप्रवीणो नटः कुत्सितां नीं नृत्तेऽनतिचतुरामपि संध्यां वयःसंधौ वर्तमानां तरुणी रसभावसंधौ वर्तमानां वा रसभावज्ञाम, अत एव-सभाया अनुरागे ईशां सभ्यानुरागजनेन समर्थां संचिन्त्य वियत्तुल्ययाऽतिविशालया शुद्धमौक्तिकपरम्परा. रूपया मालयोपलक्षितया तन्वाङ्गहारं तनोति तदसांप्रतं किम् ? अपि तु-रसभावादि जनयन्त्या तया सभ्यानुरागे समुत्पादितेऽपि नृत्तकर्मकौशलेनापि सभ्यानुरागार्थ स्वयमङ्गहारं तनोतीति युक्तमेवेत्यर्थः // अथ च,-महानर्तको वयःसंधौ रसादिसंधौ वा वर्तमानां तथा समृद्धिमतीमपि स्त्रियं कुरिसतां नटी नृत्तानभिज्ञां ज्ञात्वा सभानुरागे निमित्त विशिष्टया तन्वा स्वयमङ्गहारं तनोति तदसांप्रतं किं नु, अपि तु तस्या नृत्यकौशलाभावान्नृत्तेन सभानुरञ्जने सामर्थ्याभावात्सभानुरञ्जनार्थ स्वयमेव निपुणं नृत्यतीति युक्तमेवेत्यर्थः // अथ च,-अन्योऽपि महानतिसमृ.
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy